________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAAAAAAAAAAA
दयात् पश्चादपि क्रियन्ते । नमस्कारसहितं च यदि सूर्योदयात् प्रागुच्चारितं तदा तत्पूर्तेरन्यदपि पौरुष्यादिकालप्रत्याख्यानं सर्वं | क्रियते स्वस्वावधिमध्ये । नमस्कारसहितोच्चारं विना सूर्योदयादनु कालप्रत्याख्यानं न शुद्ध्यति यदि दिनोदयात्प्राग् नमस्कारसहितं विना पौरुष्यादि कृतं तदा तत्पूर्तेरूर्ध्वमपरं कालप्रत्याख्यानं न शुध्यति, तन्मध्ये तु शुध्यतीति वृद्धव्यवहारः । नमस्कारसहितस्य मुहूर्तप्रमाणत्वमल्पाकारत्वादेव लभ्यते, मुहूर्तानन्तरमपि नमस्कारपाठं विना भोजनेऽस्य भङ्ग एव नमस्कार- | सहितेत्युच्चारणात् । प्रमादपरिजिहीर्षोहि प्रत्याख्यानं विना न युक्तं क्षणमप्यासितुमिति । नमस्कारसहितादिकालप्रत्याख्यानपूर्तिसमये ग्रन्थिसहितादि कार्य, ग्रन्थिसहितं च बहुवारौषधादिभोजिनां बालग्लानादीनामपि सुसाध्यं, नित्यम-प्रमत्ततानिमित्ततया च महाफलं, सकृत् कृतग्रन्थिसहितमात्रकपर्दियक्षीभूतमांसमद्याद्यासक्तकुविन्दादेरिव । उक्तञ्च
जे निच्चमप्पमत्ता, गंठिं बंधंति गंठिसहिअस्स । सग्गापवग्गसुक्खं तेहिं निबद्धं सगंठिम्मि ॥ भणिऊण नमुक्कारं, निच्चं विस्सरणवज्जिअं धन्ना । पारंति गंठिसहियं गंठिसह कम्मगंठिहिं ॥ इअ कुणइ ए अब्भास अब्भासं सिवपुरस्स जइ महसि । अणसणसरिसं पुण्णं, वयंति एअस्स समयन्नू ॥ रात्रिचतुर्विधाहारपरिहार-स्थानोपवेशनपूर्वकताम्बूलादिव्यापारण-मुखशुद्धिकरणादिविधीनां ग्रन्थिसहितप्रत्याख्यानपालनेन
१. तत्पूर्तेरन्वपि इति को० ह० प्र० पाठाः । २. सुसाधम् इति को० ह० प्र० पाठः ।
१२३