________________
प्रथम:
A
श्राद्धविधिप्रकरणम्
प्रकाशः
फली-फलिकादौ तु नामैक्येऽपि भिन्नभिन्नस्वादव्यक्तेः परिणामान्तराभावाच्च बहुद्रव्यत्वम् । अन्यथा वा विवक्षासम्प्रदायादिवशाद् द्रव्याणि गणनीयानि, धातुमयशलाका-कराङ्गल्यादिकं द्रव्यमध्ये न गणयन्ति २। विकृतयो भक्ष्याः षट्, दुग्ध-दधि-घृततैल-गुड-सर्वपक्वान्नभेदात् ३। वाणहत्ति उपानयुग्मं, मोचकयुग्मं वा, काष्ठपादुकादिस्तु बहुविराधनादिहेतुः श्राद्धस्य न युज्यते । ताम्बूलं पत्र-पूग-खदिरवटिका-कत्थकादिस्वादिमरूपं ५। वस्त्रं पञ्चाङ्गादिर्वेषः, धौतिकपौतिकरात्रिवस्त्रादि वेषे न गण्यते ६। कुसुमानि शिर:कण्ठक्षेपशय्योच्छीर्षकाद्यर्हाणि, तन्नियमेऽपि देवपूजादौ कल्पन्ते ७। वाहनं स्थाऽश्व-पौष्ठिक-सुखासनादि ८ शयनं खट्वादि ९। विलेपनं भोगार्थं चन्दनजबाधिचोअक-कस्तूर्यादि, तन्नियमेऽपि देवपूजादौ तिलकहस्तकङ्कणधूपनादि कल्पते १०। ब्रह्म दिवा रात्रौ वा पत्न्याद्याश्रित्य ११। दिक्परिमाणं सर्वतोऽमुकदिशि वा इयत्क्रोशयोजनाद्यवधिकरणं १२। स्नानं तैलाभ्यङ्गादिपूर्वकं । भक्तं राद्धधान्य-सुखभक्षिकादि सर्वं त्रिचतु:सेरादिमितं, खडबूजादिग्रहणे बहवोऽपि सेराः स्युः १४।
इह सचित्तवद् द्रव्यादीनामपि व्यक्त्या नामग्राहं सामान्येन वा यथाशक्ति युक्तिनैयत्यं कार्यं । उपलक्षणत्वादन्येऽपि शाकफलधानादिप्रमाणारम्भनयत्यादिनियमा यथाशक्ति ग्राह्याः । एवं नियमग्रहणानन्तरं यथाशक्ति प्रत्याख्यानं कार्यम् ।
तत्र नमस्कारसहितपौरुष्यादिकालप्रत्याख्यानं सूर्योदयात्प्राग् यद्युच्चार्यते तदा शुध्यति नान्यथा । शेषप्रत्याख्यानानि सूर्यो
१. देवशेषाः कल्पन्ते इति को० ह० प्र० पाठः ।
१२२