________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
जायते सचित्तता से तस्योष्णोदकस्य प्रासुकजलस्य वा ग्लानाद्यर्थं धृतस्य ग्रीष्मे प्रहरपञ्चकस्योपरि प्रहरपञ्चकादूर्ध्वं कालस्यातिरूक्षत्वाच्चिरेणैव जीवसंसक्तिसद्भावात्, तथा शिशिरे शीतकाले कालस्य स्निग्धत्वात्प्रहरचतुष्टयादूर्ध्वं सचित्तता स्यात् । वर्षासु पुनः कालस्यातिस्निग्धत्वात्प्रासुकीभूतमपि जलं प्रहरत्रयादूर्ध्वं सचित्तं, तदूर्ध्वमपि यदि ध्रियते, तदा क्षार: प्रक्षेप्यो, येन न भूयः सचित्तं स्यादिति । १३६ द्वारे । यश्चाप्कायादिः स्वभावादेवाचित्तीस्यान्न बाह्यशस्त्रसम्बन्धात्तमचित्तं जानाना अपि केवलमन:पर्यायावधिश्रुतज्ञानिनो न परिभुञ्जतेऽनवस्थाप्रसङ्गभीरुतया । यतः श्रूयते भगवता श्रीवर्धमानेन शैवलपटलत्रसादिरहितो महाहदोऽचित्तवारिपूर्णः स्वशिष्याणां तृड्बाधितानां प्राणान्तसङ्कटेऽपि पानाय नाऽनुजज्ञे, एवं क्षुधाशरीरचिन्तया च बाधितानामप्यचित्ततिलशकयचित्तस्थण्डिलपरिभोगानुज्ञा न कृता, अनवस्थादोषसंरक्षणार्थं श्रुतज्ञानप्रामाण्यज्ञापनार्थं च, तथाहि-न सामान्यश्रुतज्ञानी बाह्यशस्त्रसम्पर्कं विना जलाधचित्तमिति व्यवहरति, अतो बाह्यशस्त्रसंपर्काद्वर्णादिभिः परिणामान्तरापन्नमेव जलाधचित्तं व्यापार्यम् । कङ्कटुकमुद्ग-हरीतकी-कुलकादिरचेतनोऽप्यविनष्टयोनिरक्षणार्थं निःशूकतादिपरिहारार्थं च दन्तादिभिर्न भज्यते । यदुक्तं श्रीओघनिर्युक्तौ पञ्चसप्ततितमगाथावृत्तौ-"ननु कस्मादचित्तवनस्पतियतना ? उच्यते, यद्यप्यचित्तस्तथापि केषाञ्चिद्वनस्पतीनामविनष्टा योनिः स्यात् गुडूचीमुद्गादीनां, तथाहि-गुडूची शुष्काऽपि जलसेकात्तादात्म्यं भजन्ती दृश्यते, एवं कङ्कटकमुद्गादिरपि, अतो योनिरक्षणार्थमचेतनयतनाऽपि न्यायवत्येवेति ।" एवं सचित्ताचित्तादिव्यक्तिं ज्ञात्वा सप्तमं व्रतं नाम
११९
१. १३६ इति को० ह० प्र० पाठः ।