________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
अपरे तु तथैव जाता यावद् बुबुदा न शाम्यन्ति तावत् । अन्येतु यावत्तन्दुला न सिध्यन्ति तावत्, एते त्रयोऽप्यनादेशा, रूक्षेतरभाण्डपवनाऽग्निसम्भवाऽसम्भवादिभिरेषु कालनियमस्याऽभावात्ततोऽतिस्वच्छीभूतमेवाचित्तम् ।
निव्वोदगस्स गहणं, केई भाणेसु असुइपडिसेहो । गिहिभायणेसु गहणं, ठिअवासे मीसगं छारो ॥
नीव्रोदकं हि धूमधूम्रीकृतदिनकरकरसम्पर्कसोष्मनीव्रसम्पर्कादचित्तमतस्तद्ग्रहणे न काचिद्विराधना । केचिदाहुः स्वभाजनेषु तद् ग्राह्यम्, अत्राचार्यः प्राह-अशुचित्वात् स्वपात्रेषु ग्रहणस्य प्रतिषेधः, ततो गृहीभाजने कुण्डिकादौ ग्राह्यं, वर्षति मेघे च तन्मिश्रं, ततः स्थिते वर्षेऽन्तर्मुहूर्त्तादूर्ध्वं ग्राह्यं, जलं हि केवलं प्रासुकीभूतमपि प्रहरत्रयादूर्ध्वं भूयः सचित्तं स्यादतस्तन्मध्ये क्षारः क्षिप्यते, एवं च स्वच्छतापि स्यादिति पिण्डनियुक्तिवृत्तौ । तन्दुलानां धावनोदकानि प्रथमद्वितीयतृतीयानि अचिरकृतानि मिश्राणि, चिरं तिष्ठन्ति त्वचित्तानि, चतुर्थादिधावनानि तु चिरं स्थितान्यपि सचित्तानि । प्रासुकजलादिकालमानमेवमुक्तं प्रवचनसारोद्धारादौ
उसिणोदगं 'तिण्हुक्कालिअं फासुअजलं जइकप्पं । नवरि गिलाणाइकए पहरतिगोवरिवि धरियव्वं ॥ जायइ सचित्तया से गिम्हासु पहरपंचगस्सुवरं । चउपहरूवरिं सिसिरे, वासासु पुणो तिपहरूवरि ॥
१. तिगंडुक्क इति को० ह० प्र० पाठः । मुद्रितेऽपि ।
११८