________________
|
A
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
कुलत्वादिना रिंगणकाय-माटी-टिंबरु-जम्बू-बिल्वार्द्रपीलु-पक्वकरमन्द-गुन्दी-फल-पिंचू-मधूक-मकुर-वाल्हउलि-बृहद्बदरक- | कच्चकुठिभड-खसखस-तिल-सच्चित्तलवणाद्यपि वयं, यच्च रक्ताद्यनीदृशच्छायं पक्वगोल्हककंकोडकफणसफलादि, यच्च यत्र देशादौ जने विरुद्ध कादन्तुबक-कुष्माण्डादि तत्र तदपि त्याज्यमन्यथा जिनधर्मेऽपभ्राजनाद्यापत्तेः । अभक्ष्यानन्तकायिके तु परगृहादौ प्रासुकभूते अपि न ग्राह्ये, निःशूकताप्रसङ्गवृद्ध्यादिदोषसम्भवात्, अत एवोत्कालिकसेल्लरकं राधाकसूरणवृन्ताकादि प्रासुकमपि सर्वं वयं, प्रसङ्गदोषपरिहाराय, मूलकस्तु पञ्चाङ्गोऽपि त्याज्य:, शुण्ठ्यादि तु नामस्वादभेदादिना कल्पते, उष्णनीरं तु त्रिदण्डोत्कलनावधि मिश्रम् । यदुक्तं पिण्डनियुक्ती
उसिणोदगमणुवत्ते, दंडे वासे अ पडिअमित्तम्मि । मुत्तूणादेसतिगं, चाउलउदगऽबहु पसन्नं ॥ (२८)
अनुवृत्तेषु त्रिषु दण्डेषु उत्कालेषु जलमुष्णं मिश्रं ततः परमचित्तं, तथा वर्षे वृष्टौ पतितमात्रायां ग्रामादिषु प्रभूतमनुष्यप्रचारभूमौ यज्जलं तद्यावन्न परिणमति तावन्मिश्र, अरण्यभूमौ तु यत् प्रथमं पतति तत् पतितमात्रं मिश्रं पश्चान्निपतत्सच्चित्तं, आदेशत्रिकं मुक्त्वा तन्दुलोदकमबहुप्रसन्नं मिश्र, अतिस्वच्छीभूतं त्वचित्तं, अत्र त्रय आदेशा यथा केचिद्वदन्ति, तन्दुलोदके तन्दुलप्रक्षालनभाण्डादन्यत्र भाण्डे क्षिप्यमाणे त्रुटित्वा भाण्डपार्चे लग्ना बिन्दवो यावन्न शाम्यन्ति तावन्मिश्रम् ।
१. कटुतुम्बक इति को० ह० प्र० पाठः ।
११७