________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAAAAAAAAAAA
एवं नव वारान् प्रत्युपेक्षणे यदि न दृष्टाः प्राणिनस्तदा भोक्तव्यास्ते, अथ दृष्टास्तदा पुनर्नव वारान् प्रत्युपेक्ष्यास्तथापि चेद् | दृष्टास्ततः पुनर्नव वारानेवं शुद्धा भोज्याः, अथ न शुद्धास्तदा परिष्ठाप्याः, असंस्तरणे तु तावत्प्रत्युपेक्ष्यन्ते, यावच्छुद्धाः स्युः, 4ऊरणिकाश्च घरट्टादिपार्श्वस्थप्रभूततुषरूपे आकारे तदभावे कर्परादौ स्तोकसक्तून् क्षिप्त्वाऽनाबाधप्रदेशे स्थाप्यन्त इति ।। पक्वान्नाद्याश्रित्य चैवमुक्तं
वासासु पनरदिवसं सीउण्हकालेसु मासदिणवीसं । ओगाहिमं जईणं, कप्पइ आरब्भ पढमदिणा ॥ केचित्त्वस्या गाथाया अलभ्यमानस्थानत्वं वदन्तो यावद् गन्धरसादिना न विनश्यति तावदवगाहिम शुध्यतीत्याहुः । जइ मुग्गमासपभिई, विदलं कच्चंमि गोरसे पडइ । ता तसजीवुष्पत्ति, भणति दहिएवि दुदिणुवरि ।। 'तिदिणुवरिं' इति पाठस्तु सम्यग् न सम्भाव्यते, 'दध्यहतियातीतम्' इति हैमवचनात् । जम्मि उ पिलिज्जंते, नेहो नहु होइ बिंति तं विदलं । विदले वि हु उप्पन्नं, नेहजुअं होइ नो विदलं ॥ पर्युषितं द्विदल-पूपिकादि-केवलजलराद्धकूरादि तथान्यदपि सर्वं कुथितान्नं पुष्पितौदनपक्वान्नादि चाभक्ष्यत्वेन वर्जनीयं, | द्वाविंशत्यभक्ष्यद्वात्रिंशदनन्तकायव्यक्तिस्वरूपं मत्कृतश्राद्धप्रतिक्रमणसूत्रवृत्ते यम् । विवेकिना चाऽभक्ष्यवद् बहुबीजजीवा
११६
१. सम्यक् सम्भाव्यते इति को० ह० प्र० पाठः ।