________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAAAAAAAAAA
जव-जवजव-गोहुम-सालि-वीहि-धण्णाण कुट्ठयाईसु । खिविआणं उक्कोसं, वरसतिगं होइ सजीवत्तं ॥ तिल-मुग्ग-मसूर-कलाय-मास-चवलय-कुलत्थ-तुवरीण । तह वट्ट-चणय-वल्लाण वरिसपणगं सजीवत्तं ॥ अयसी-लट्टा-कंगू-कोडूसग-सणवरसिद्धत्था । कुद्दव-रालय-मूलगबीआणं सत्तवरिसाणि ॥
कर्पासस्य चाऽचित्तता त्रिवर्ध्या स्यात्, यदुक्तं श्रीकल्पबृहद्भाष्ये-'सेडुगं तिवरिसाइं ।' गिण्हंति सेडुगं त्रिवर्षातीतं विध्वस्तयोनिकमेव गृहीतुं कल्पते, सेडुक: कर्पास इति तद्वृत्तौ, पिष्टस्य तु मिश्रतादि एवमुक्तं पूर्वसूरिभिः
पणदिणमीसो लुट्टो, अचालिओ सावणे अ भद्दवए । चउ आसोए कत्तिअ, मगसिरपोसे तिन्नि दिणा ॥ पणपहर माहफग्गुणि, पहरा चत्तारि चित्तवइसाहे । जिट्ठासाढे तिपहरं तेण परि होइ अचित्तो ।
चालितं तु पिष्टं मुहूर्तादुर्ध्वमचित्तम् । ननु पिष्टाद्यचित्तीभूतं कियद्दिनान्यचित्तभोजिनः कल्पते ? उच्यते, नात्र दिननियमः सिद्धान्ते श्रूयते, परं नव्यजीर्णकणादिद्रव्य-सरसनीरसादिक्षेत्र-वर्षाशीतोष्णादिकाल-तत्तत्परिणामादिभावविशेषेण पक्षमासाद्यवधियावद्वर्णगन्धरसादिविपरिणाम इलिकादिजीवसंसक्तिश्च न स्यात्तावत्कल्पते । साधूनाश्रित्य सक्तुयतना कल्पवृत्तितुर्यखण्डे त्वेवमुक्ता- यत्र देशादौ सक्तूनां संसक्तिः तत्र ते न ग्राह्या, अनिर्वाहे तद्दिनकृता ग्राह्याः, तथाप्यनिर्वाहे द्वित्रिदिनकृताः पृथक् पृथग् ग्राह्याः, चतुर्दिनकृतादयस्तु सर्वेऽप्येकत्र ग्राह्याः, तेषामयं विधि:-रजस्त्राणमधः प्रस्तार्य तस्योपरि पात्रकम्बलं कृत्वा तत्र सक्तवः प्रकीर्यन्ते, तत ऊर्ध्वमुखं पात्रकबन्धं कृत्वा एकस्मिन् पार्वे नीत्वा यास्तत्रोरणिका लग्नास्ता उद्धृत्य कपरे क्षिप्यन्ते,
११५