________________
प्रथमः प्रकाशः
१२०
ग्राहं सचित्तादिसर्वभोग्यवस्तुनैयत्यकरणादिना स्वीकार्यं, यथा आनन्दकामदेवादिभिः । तथासङ्क्षेपाशक्तौ तु सामान्यतो दिनं प्रति एकद्वयादिसचित्त - दशद्वादशादिद्रव्यैकद्वयादिविकृत्यादिनियमं कुर्यात् परं दिनं प्रति एकसचित्ताभिग्रहिणोऽप्येवं नियमग्रहणे पृथक् पृथक् दिनेषु परावर्त्तेन सर्वसचित्तग्रहणमपि स्यात्, तथा च न विशेषविरतिः, नामग्राहं सचित्तनैयत्याभिग्रहे तु तदन्यसर्वसचित्त-निषेधरूपं यावज्जीवं स्पष्टमेवाधिकं फलम् उक्तञ्च
पुप्फफलाणं च रसं, सुराइमंसाण महिलिआणं च । जाणंता जे विरिया, ते दुक्करकारए वंदे ॥
सचित्तेषु च सर्वेष्वपि नागवल्लीदलान्येव दुस्त्यजानि, शेषसचित्तानां प्रायः सर्वेषां प्रासुकीभवनेऽपि स्वादुतादियोगाद्विशिष्य चाम्रादीनां नागवल्लीदलेषु च निरन्तरं जलक्लेदादिना नीलीकुन्थ्वण्डकादिविराधना भूयसी, तत एव तानि पापभीरवो रात्रौ न व्यापारयन्ति येऽपि व्यापारयन्ति तेऽपि सम्यग् दिवा संशोध्यैव, ब्रह्मचारिणा तु विशिष्य तानि त्याज्यानि कामाङ्गत्वात्तेषां, प्रत्येकसचित्तेऽप्येकस्मिन् पत्रफलादावसङ्ख्यजीवविराधनासम्भवः । यदागमः -
जं भणिअं पज्जत्त निस्साए वुक्कमंतऽपज्जता । जत्थेगो पज्जत्तो, तत्थ असंखा अपज्जत्ता ॥
बादरेष्वेकेन्द्रियेष्वेवमुक्तं, सूक्ष्मेषु तु यत्रैकोऽपर्याप्तः तत्र तन्निश्रया नियमादसङ्ख्याः पर्याप्ताः स्युरित्याचाराङ्गवृत्त्यादौ प्रोक्तम् । एवमेकस्मिन्नपि पत्रादावसङ्ख्या जीवा विराध्यन्ते तदाश्रितजलनील्यादिसम्भवे त्वनन्ता अपि । जललवणादि चासङ्ख्यजीवात्मकमेव । यदा
AAAAAAAAAAAAA
श्राद्धविधिप्रकरणम्