________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
लवणादिकं विध्वस्तं भवति । लोणाई इत्यत्राऽऽदिशब्दादमी द्रष्टव्या
हरिआल मणोसिल पिप्पली अ खज्जू रमुद्दिया अभया । आईन्नमणाइन्ना, ते वि हु एमेव नायव्वा ॥ (व्य.भा. ९७४)
हरितालं मनःशिला पिप्पली च खजूरः । एते प्रतीताः, मुद्रिका-द्राक्षा, अभया-हरीतकी, एतेऽप्येवमेव लवणवद् 4 योजनशतगमनादिभिः कारणैरचित्तीभवन्तो ज्ञातव्याः, परमेकेऽत्राऽऽचीर्णा अपरेऽनाचीर्णाः, तत्र पिप्पलीहरीतकीप्रभृतय आचीर्णा | इति गृह्यन्ते, खजूरमुद्रिकादयः पुनरनाचीर्णा इति न गृह्यन्ते ।
आरुहणे ओरुहणे निसिअण गोणाइणं च गाउम्हा । भुम्माहारच्छेए, उवक्कमेणं च परिणामो ॥ (व्य.भा. ९७५)
शकटे गवादिपृष्टेषु च लवणादीनां यद्भूयो भूय आरोहणमवरोहणं च, तथा यत्तस्मिन् शकटादौ लवणादिभारोपरि मनुष्या निषीदन्ति, तेषां गवादीनां च यः कोऽपि पृष्ठादिगात्रोष्मा तेन वा परिणामो भवति, तथा यो यस्य भौमादिकः पृथिव्यादिकः आहार: तद्व्यवच्छेदे तस्य परिणाम: उपक्रमः शस्त्रं, तच्च विधा, स्वकायपरकायतदुभयरूपं, तत्र स्वकायशस्त्रं यथा लवणोदकं मधुरोदकस्य, कृष्णभूमिर्वा पाण्डुभूमेः, परकायशस्त्रं यथाऽग्निरुदकस्य, उदकं चाग्नेरिति, तदुभयशस्त्रं यथा उदकमृत्तिका शुद्धोदकस्येत्यादि । एवमादीनि सचित्तवस्तूनां परिणमनकारणानि मन्तव्यानि ।
१. आहारः स इति को० ह०प्र० पाठः ।
११२