________________
प्रथमः
श्राद्धविधि
प्रकाशः
प्रकरणम्
गाढमर्दितं निष्कणं जीरकाजमकादि च मुहूर्तं यावन्मिश्राणि, मुहूर्तादूर्ध्वं तु प्रासुकानीति व्यवहतिः । अन्यदपि प्रबलाग्नियोगं विना यत्प्रासुकीकृतं स्यात् तन्मुहूत्तावधि मिश्रं तदनु प्रासुकं व्यवह्रियते, यथा प्रासुकनीरादि, तथा कच्चफलानि कच्चधान्यानि गाढं मर्दितमपि लवणादि च प्रायोऽग्न्यादिप्रबलशस्त्रं विना न प्रासुकानि । यदुक्तं श्रीपञ्चमाङ्गे अयमर्थ एकोनविंशे शते | तृतीयोद्देशके सूत्र-३२ "वज्रमय्यां शिलायां स्वल्पपृथ्वीकायस्य वज्रलोष्टकेनैकविंशतिवारान् पेषणे सन्त्येके केचन जीवा ये| स्पृष्टा अपि नेति ।" योजनशतात्परत आगतानि हरीतकी-खारिकि-किसिमिसि-द्राक्षा-खजूर-मरिच-पिप्पली-जातिफलबदाम-वायम-अखोडन-मिजां-जरगोजां-पिस्तां-चणीकबावा-स्फटिकानुकारिसैन्धवादीनि, सज्जिकाबिडलवणादिः कृत्रिमः क्षारः, कुम्भकारादिपरिकर्मितमृदादिकम्, एला-लवंग-जावित्री-शुष्क-मुस्ता-कोंकणादिपक्वकदलीफलानि, उत्कालितशृङ्गाटकपूगादीनि च प्रासुकानीति व्यवहारो दृश्यते । उक्तमपि श्रीकल्पे -
जोअणसयं तु गंतुं, अणहारे तुण्ण भंडसंकती । वायागणिधूमेण य, विद्धत्थं होइ लोणाई ॥ (भा० ९७३)
लवणादिकं स्वस्थानात् गच्छत् प्रत्यहं बहुबहुतरादिक्रमेण विध्वस्यमानं योजनशतात्परतो गत्वा सर्वथैव विध्वस्तमचित्तं भवति । आह-शस्त्राभावे योजनशतगमनमात्रेणैव कथमचित्तीभवतीत्याह, अनाहारेण यस्य यदुत्पत्तिदेशादिकं साधारणं तत्ततो व्यवच्छिन्नं स्वोपष्ठम्भकाहारविच्छेदाद्विध्वस्यते, तच्च लवणादिकं भाण्डसङ्क्रान्त्या पूर्वस्मात्पूर्वस्माद् भाजनादपरभाजनेषु, यद्वा पूर्वस्या भाण्डशालाया अपरस्यां भाण्डशालायां सङ्क्रम्यमाणं विध्वस्यते । तथा वातेन वाऽग्निना वा महानसादौ धूमेन वा
११