________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
मालास्वप्नोऽह्नि दृष्टश्च तथाऽऽधिव्याधिसम्भवः । मलमूत्रादिपीडोत्थः स्वप्नः सर्वो निरर्थकः ॥ अशुभः प्राक् शुभः पश्चात् शुभो वा प्रागथाशुभः । पाश्चात्यः फलदः स्वप्नो दुःस्वप्ने शान्तिरिष्यते ॥ स्वप्नचिन्तामणिशास्त्रेऽपिस्वप्नमनिष्टं दृष्ट्वा सुप्यात्पुनरपि निशामवाप्याथ । न कथं कथमपि कथयेत्केषाञ्चित् फलति न स यस्मात् ।। (१.२१) उत्थाय जिनं प्रातर्ध्यायति यः स्तौति वाऽथवा स्मरति । पञ्चनमस्कृतिमन्त्रं दुःस्वप्नस्तस्य वितथ: स्यात् ॥ (२२) पूजादीन्यपि रचयेद्देवगुरूणां तपश्च निजशक्त्या । सततं धर्मरतानां दुःस्वप्नो भवति सुस्वप्नः ॥ (२३) देवगुरूणां स्मरणं नामग्रहणं सुतीर्थसूरीणाम् । विरचय्य स्वपिति यदा न कदाऽप्याप्नोति दुःस्वप्नम् ॥ (१.२५) निष्ठीवनेन दद्वादेस्ततः कुर्यान्निघर्षणम् । अङ्गदााय पाणिभ्यां वज्रीकरणमाचरेत् ॥ प्रातः प्रथममेवाथ स्वपाणिं दक्षिणं पुमान् । पश्येद्वामं तु वामाक्षी निजपुण्यप्रकाशकम् ॥ मातृप्रभृतिवृद्धानां नमस्कारं करोति यः । तीर्थयात्राफलं तस्य तत्कार्योऽसौ दिने दिने । अनुपासितवृद्धानामसेवितमहीभुजाम् । अवारमुख्यासुहृदां दूरे धर्मार्थतुष्टयः ॥ १. यो वस्तुतोऽपि जिननाथं । २. वितथत्वं रा प्रथयति तस्य ॥
१०६