________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
त्काकारितेऽनुमोदिते च शतमेकमन्यूनमुच्छ्वासानां क्षपयेत् । पञ्चविंशत्युच्छ्वासप्रमाणं चतुर्विंशतिस्तवं चतुरो वारान् ध्यायेदिति | भावः । अथवा महाव्रतानि दशवैकालिकश्रुतबद्धानि (अध्य. ४. सू. ३-९) कायोत्सर्गे ध्यायेत् । तेषामपि प्रायः पञ्चविंशतिश्लोकमानत्वात् । यदि वा यान् तान् वा स्वाध्यायभूतान् पञ्चविंशतिश्लोकान् ध्यायेदिति ॥ तवृत्तौ आद्यपञ्चाशकवृत्तावपि जातु मोहोदयात् कुस्वप्ने स्त्रीसेवादिरूपे तत्कालमुत्थायेर्यापथप्रतिक्रमणपूर्वकमष्टोत्तरशतोच्छ्वासप्रमाणः कायोत्सर्गः कार्य इति । कायोत्सर्गे कृतेऽपि प्रतिक्रमणवेलाया अर्वाग् बहुनिद्रादिप्रमादे पुनरेवं कायोत्सर्गः क्रियते । जातु दिवापि निद्रायां कुस्वप्नायुपलम्भे एवं कायोत्सर्गः कर्त्तव्यो विभाव्यते, परं तदैव क्रियते सन्ध्याप्रतिक्रमणावसरे वेति निर्णयो बहुश्रुतगम्यः । विवेकविलासादौ त्वेवमुक्तं
सुस्वप्नं प्रेक्ष्य न स्वप्यं कथ्यमह्नि च सद्गुरोः । दुःस्वप्नं पुनरालोक्य कार्यः प्रोक्तविपर्ययः ॥ समधातोः प्रशान्तस्य धार्मिकस्यापि नीरुजः । स्यातां पुंसो जिताक्षस्य स्वप्नौ सत्यौ शुभाशुभौ ॥ अनुभूतः श्रुतो दृष्टः प्रकृतेश्च विकारजः । स्वभावतः समुद्भूतश्चिन्तासन्ततिसम्भवः । देवताद्युपदेशोत्थो धर्मकर्मप्रभावजः । पापोद्रेकसमुत्थश्च स्वप्नः स्यान्नवधा नृणाम् ॥ युग्मम् । प्रकारैरादिमैः षड्भिरशुभश्च शुभोऽपि च । दृष्टो निरर्थकः स्वप्नः सत्यस्तु त्रिभिरुत्तरः ॥ रात्रैश्चतुर्पु यामेषु दृष्टः स्वप्नः फलप्रदः । मासै‘दशभिः षड्भिस्त्रिभिरेकेन च क्रमात् ॥ निशाऽन्त्यघटिकायुग्मे दशाहात्फलति ध्रुवम् । दृष्टः सूर्योदये स्वप्नः सद्यः फलति निश्चितम् ॥