________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAA
कोहं का मम जाई, किं च कुलदेवया च के गुरुणो । को मह धम्मो के वा, अभिग्गहा का अवस्था मे ॥ किं मे कडं किंच मे किच्चसेसं, किं सक्कणिज्जं न समायरामि । किं मे परो पासइ किं च अप्पा, किं वाहं खलिअं न विवज्जयामि ॥ (दशवैकालिक० चू० २-१२-१३)
एवमद्य का तिथिः ? किं वाऽर्हतां कल्याणकं ? किं वाऽद्य मम कृत्यमित्यादि । अत्र स्वकुलधर्मव्रतादेः स्मरणं भावतः, | गुर्वादेस्तु द्रव्यतः, कुत्र देशे पुरे ग्रामे स्थाने वाऽस्मीति क्षेत्रतः, कः कालः प्रभातादिः सम्प्रतीति च कालतः, इदं च सर्वमादिशब्देन सगृहीतम् । एवं स्मरणे हि जीवसावधानत्व-तत्तद्विरुद्धकर्मस्वदोषादिपरिहार-स्वनियमनिर्वाहन-व्यगुणविशेषधर्मार्जनादयो गुणाः । श्रूयते ह्यानन्दकामदेवाद्यैरपि धर्मजागर्याप्रतिबुद्धैः प्रतिमादिविशेषधर्मकरणादि ।
अथोत्तरार्द्धव्याख्या-"पडिकमिअत्ति" ततः चेत् प्रतिक्रामकस्तदा प्रतिक्रम्य रात्रिप्रतिक्रमणं कृत्वा । तद्विधिरग्रे वक्ष्यते । यो न प्रतिक्रामति तेनापि रागादिमयकुस्वप्न-प्रद्वेषादिमयदुःस्वप्नयोरनिष्टसूचकताहक्स्वप्नस्य च प्रतिघाताय स्त्रीसेवादिकुस्वजोपलम्भेऽष्टोत्तरशतोच्छ्वासमानः कायोत्सर्गः कार्यः, अन्यथा तु शतोच्छ्वासमानः कायोत्सर्गः कार्यः । यदुक्तं व्यवहारभाष्ये
पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे सुमिणे । सयमेगं तु अणूणं, ऊसासाणं झविज्जाहि ॥ महव्वयाई झाइज्जा सिलोगे पंचवीसई । इत्थीविप्परिआसे अ सत्तावीससिलोइओ ॥ प्राणिवधादिचतुष्के स्वप्ने कृते कारितेऽनुमोदिते च, मैथुने तु कृते द्वितीयगाथोत्तराद्धेऽष्टोत्तरशतोच्छ्वासोत्सर्गस्योक्तत्वात्
१०४