________________
प्रथमः
प्रकाशः
१०३
नासेइ चोरसावयविसहरजलजलणबंधणभयाई । चिंतिज्जंतो रक्खसरणरायभयाई भावेण ॥ अन्यत्रापि
जाएवि जो पढिज्जइ, जेणं जायस्स होइ फलरिद्धि । अवसाणेवि पढिज्जइ, जेण मओ सुग्गइं जाइ ॥ आवइहिंपि पढिज्जइ, जेण य लंघेइ आवइसयाई । रिद्धीएवि पढिज्जइ, जेण य सा जाइ वित्थारं ॥ नवकारइक्कअक्खर, पावं फेडेड़ सत्त अयराणं । पन्नासं च पएणं, पंचसयाई समग्गेणं ॥ जो गुणइ लक्खमेगं पूएइ विहीइ जिणनमुक्कारं । तित्थयरनामगोअं, सो बंधइ नत्थि संदेहो ॥
अट्ठेव य अट्ठसया, अट्ठसहस्सं च अट्ठकोडीओ । जो गुणड़ अट्ठलक्खे, सो तइअभवे लहइ सिद्धि |
नमस्कारमाहात्म्ये इह लोके श्रेष्ठिपुत्रशिवादयो दृष्टान्ताः । यथा - स द्यूताद्यासक्तो 'विषमे नमस्कारं स्मरे:' इति पित्रा शिक्षितः पितरि मृते व्यसननिर्धनो धनार्थी दुष्टत्रिदण्डिगिरा उत्तरसाधकीभूतः कृष्णचतुर्दशीरात्रौ स्मशाने खड्गपाणिः शबस्याङ्घ्री प्रक्षयन् भीतो नमस्कारं सस्मार, त्रिरुत्थितेनापि शबेन तं प्रत्यप्रभूष्णुना त्रिदण्ड्येव हतः, स्वर्णनरः सिद्धस्तस्य, ततो महर्द्धि: शिवश्चैत्याद्यचीकरत्, इत्यादि । परलोके तु वटशमलिकादयः, यथा सा म्लेच्छबाणविद्धा साधुदत्तनमस्कारात्सिंहलेशस्य मान्यपुत्रीत्वेनोत्पन्ना क्षुतसमयमहेभ्योक्तनमस्काराद्यपदश्रुतेर्जातिस्मरा पञ्चशत्या पोतैरागत्य भृगुपुरे शमलिकाविहारोद्धारकमकारयदित्यादि । तस्मात्सुप्तोत्थितेन पूर्वं नमस्कारः स्मर्त्तव्यः, ततो धर्मजागर्या कार्या । यथा
श्राद्धविधिप्रकरणम्