________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
एवं च मन्त्रविद्यानां वर्णेषु च पदेषु च । विश्लेषं क्रमशः कुर्याल्लक्ष्यभावोपपत्तये ॥ जापादेश्च बहुफलत्वं, यतःपूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः । जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः ॥ ध्यानसिद्धये च जिनजन्मादिकल्याणकभूम्यादिरूपं तीर्थमन्यद्वा स्वास्थ्यहेतुं विविक्तं स्थानाद्याश्रयेत् । यद् ध्यानशतकेनिच्चं चिअ जुवइपसुनपुंसगकुसीलवज्जियं जइणो । ठाणं विअणं भणिअं, विसेसओ झाणकालंमि ॥ थिरकयजोगाणं पुण, मुणीण झाणेसु निच्चलमणाणं । गामम्मि जणाइन्ने, सुन्ने रन्ने व न विसेसो ॥ तो जत्थ समाहाणं, होइ मणोवयणकायजोगाणं । भूओवरोहरहिओ, सो देसो झायमाणस्स ॥ कालो वि सुच्चिअ जहिं जोगसमाहाणमुत्तमं लहइ । नउ दिवसनिसावेलाइनियमणं झाइणो भणिअं ॥ जच्चिअ देहावत्था, जिआण झाणावरोहिणी होइ । झाइज्जा तदवत्थो, ठिओ निसन्नो निवन्नो वा ॥ सव्वासु वट्टमाणा मुणओ जं देसकालचिट्ठासु । वरकेवलाइलाभं, पत्ता बहुसो समिअपावा ॥ तो देसकालचिठ्ठानिअमो झाणस्स नत्थि समयम्मि । जोगाण समाहाणं, जइ होइ तहा पयइअव्वं ॥ इत्यादि !! नमस्कारश्चात्राऽमुत्राऽप्यत्यन्तं गुणकृत् । उक्तं हि महानीशीथे -
१०२