________________
प्रथमः
प्रकाशः
१०१
चारादिरूपासु नियोज्यः, मानसस्य प्रयत्नसाध्यत्वाद्, भाष्यस्याधमसिद्धिफलत्वादुपांशुः साधारणत्वात्प्रयोज्यः इति । नमस्कारस्य | पञ्चपदीं नवपदीं वाऽनानुपूर्व्याऽपि चित्तैकाग्र्यार्थं गुणयेत्, तस्य च प्रत्येकमेकैकाक्षरपदाद्यपि परावर्त्यम् । यदुक्तमष्टमप्रकाशे
गुरुपञ्चकनामोत्था विद्या स्यात् षोडशाक्षरा । जपन् शतद्वयं तस्याश्चतुर्थस्याऽऽप्नुयात् फलम् ॥ ( यो. शा. ८. ३८) गुरुपञ्चकं=परमेष्ठिपञ्चकं, षोडशाक्षरा = अरिहंतसिद्धआयरियउवज्झायसाहुरूपा । तथा
शतानि त्रीणि षड्वर्णं चत्वारि चतुरक्षरम् । पञ्चवर्णं जपन् योगी चतुर्थफलमश्नुते ॥ ( यो. शा. ८. ३९) षड्वर्णम्=अरिहंतसिद्ध इति । चतुरक्षरं = अरिहंत इति । अवर्णं अकारमेव मन्त्रम् ।
प्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् । फलं स्वर्गापवर्गौ तु वदन्ति परमार्थतः ॥ ( यो. शा. ८. ४०)
तथा
नाभिपद्मे स्थितं ध्यायेदकारं विश्वतोमुखम् । सिवर्णं मस्तकाम्भोजे आकारं वदनाम्बुजे ॥ उकारं हृदयाम्भोजे साकारं कण्ठपञ्जरे । सर्वकल्याणकारीणि बीजान्यन्यान्यपि स्मरेत् ॥ असिआउसा इति बीजान्यन्यान्यपि 'नमः सर्वसिद्धेभ्य' इति ।
मन्त्रः प्रणवपूर्वोऽयं फलमैहिकमिच्छुमिः । ध्येयः प्रणवहीनस्तु निर्वाणपदकाङ्क्षिभिः ॥
44
श्राद्धविधिप्रकरणम्