________________
प्रथमः
प्रकाशः
१००
सिद्धादिकचतुष्कं च दिक्पत्रेषु यथाक्रमम् । चूलापादचतुष्कं च विदिक्पत्रेषु चिन्तयेत् ॥ (३४) त्रिशुद्धया चिन्तयंस्तस्य शतमष्टोत्तरं मुनिः । भुञ्जानोऽपि लभेतैव चतुर्थतपसः फलम् ॥ (३५) करजापो नन्द्यावर्त्तशङ्खावर्त्तादिना इष्टसिद्ध्यादिबहुफलः । प्रोक्तं च
करआवत्ते जो पंचमंगलं साहुपडिमसंखाए । नववारा आवत्तइ छलंति तं नो पिसायाई ॥
बन्धनादिकष्टे तु विपरीतशङ्खावर्त्तादिनाऽक्षरैः पदैर्वा विपरीतं नमस्कारं लक्षाद्यपि जपेत्, क्षिप्रं क्लेशनाशादि स्यात् । करजापाद्यशक्तस्तु सूत्र - रत्न - रुद्राक्षादिजपमालया स्वहृदयसमश्रेणिस्थया परिधानवस्त्रचरणादावलगन्त्या मेर्वनुल्लङ्घनादिविधिना जपेत् । यतः
अङ्गुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घने । व्यग्रचित्तेन यज्जप्तं तत्प्रायोऽल्पफलं भवेत् ॥
सङ्कुलाद्विजने भव्यः सशब्दान्मौनवान् शुभः । मौनजान्मानसः श्रेष्ठो जापः श्लाघ्यः परः परः ॥ जपश्रान्तो विशेद् ध्यानं ध्यानश्रान्तो विशेज्जपम् । द्वयश्रान्तः पठेत् स्तोत्रमित्येवं गुरुभिः स्मृतम् ॥
श्रीपादलिप्तसूरिकृतप्रतिष्ठापद्धतावप्युक्तं - जापस्त्रिविधो मानसोपांशुभाष्यभेदात्, तत्र मानसो मनोमात्रवृत्तिनिर्वृत्तः स्वसंवेद्यः, | उपांशुस्तु परैरश्रूयमाणोऽन्तः सञ्जल्परूपः यस्तु परै: श्रूयते स भाष्यः, अयं यथाक्रममुत्तममध्यमाधमसिद्धिषु शान्तिपुष्ट्यभि
श्राद्धविधिप्रकरणम्