________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
परमिट्टिचिंतणं माणसम्मि सिज्जागएण कायव्वं । सुत्ताऽविणयपवित्ती निवारिआ होइ एवं तु ॥
अन्ये तु न सा काचिदवस्था यस्यां पञ्चनमस्कारस्याऽनधिकार इति मन्वाना अविशेषेणैव नमस्कारपाठमाहुः । एतन्मतद्वयमाद्यपञ्चाशकवृत्त्यादावुक्तम् । श्राद्धदिनकृत्ये त्वेवमुक्तं
सिज्जाठाणं पमुत्तूणं, चिट्ठिज्जा धरणीयले । भावबंधुं जगन्नाहं, नमोक्कारं तओ पढे ॥ (श्लो० ९) यतिदिनचर्यायां चैवंजामिणिपच्छिमजामे, सव्वे जग्गन्ति बालबुढ्ढाई । परमिट्ठिपरममंतं भणंति सत्तढुवाराओ ॥
एवं च नमस्कारं स्मरन् सुप्तोत्थितः पल्यङ्कादि मुक्त्वा पवित्रभूमौ ऊर्ध्वं स्थितो निविष्टो वा पद्मासनादिसुखासनासीनः | पूर्वस्यामुत्तरस्यां वा सम्मुखो जिनप्रतिमाद्यभिमुखो वा चित्तैकाग्रताद्यर्थं कमलबन्ध-करजापादिना नमस्कारान् परावर्तयेत्, तत्राऽष्टदले कमले कर्णिकायामाद्यं पदं, द्वितीयादिपदानि चत्वारि पूर्वादिदिक्चतुष्के, शेषाणि चत्वार्याग्नेय्यादिविदिक्चतुष्के | न्यसेदित्यादि । उक्तं चाष्टमप्रकाशे श्रीहेमसूरिभिः
अष्टपत्रे सिताऽम्भोजे कर्णिकायां कृतस्थितिम् । आद्यं सप्ताक्षरं मन्त्रं पवित्रं चिन्तयेत्ततः ॥ (श्लो० ३३) १. नमस्कारपरिवर्तनविधिरयम्-हृदि नमस्कारं इति को० ह० प्र० पाठः ।