________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
जह सिढिलमसुइदव्वं, छुप्पंतं पिहु नरं खरंटेइ । एवमणुसासगं पिहु दूसंतो भन्नइ खरंटो ॥ निच्छयओ मिच्छत्ती, खरंटतुल्लो सवत्तितुल्लोवि । ववहारओ उ सड्ढा, वयंति जं जिणगिहाईसु ॥
स-शयोरैक्यात् स्रवति मुञ्चति दानशीलतपोभावनादिना शुभयोगेनाष्टप्रकारं कर्मेति, शृणोति यतिभ्यः सम्यक् सामाचारीमित्यादिर्वा श्रावकशद्वार्थोऽपि भावश्रावकमेवाश्रित्य घटते । यदाहु: -
स्रवन्ति यस्य पापानि पूर्वबद्धान्यनेकशः । आवृत्तश्च व्रतैर्नित्यं श्रावकः सोऽभिधीयते ॥ संपत्तदंसणाई पइदिअहं जइजणा सुणेई अ । सामायारिं परमं, जो खलु तं सावगं बिंति ॥ श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादतोऽपि तं श्रावकमाहुरुत्तमाः ॥ यद्वा-श्रद्धालुतां श्राति शृणोति शासनं दानं वपत्याशु वृणोति दर्शनम् । कृन्तत्यपुण्यानि करोति संयमं तं श्रावकं प्राहुरमी विचक्षणाः ॥
तथा-श्रद्धा सम्यग् धर्मेऽस्याऽस्तीति प्रज्ञाश्रद्धाऽर्चावृत्तेर्णः (सि० है० ७-२-३३) इति णप्रत्यये श्राद्ध इति श्राद्धशद्वान्वर्थोऽपि भावश्राद्धत्वापेक्ष एवेत्यत्रोक्तं भावश्राद्धनात्राधिकार इति चतुर्थगाथार्थः ॥४॥
सससससससस सससससस ससससस
१४