________________
एवं श्राद्धस्य स्वरूपमुक्त्वा प्रागुक्ते दिनरात्र्यादिकृत्यषट्के प्रथमं दिनकृत्यविधिमाह -
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
नवकारेण विबुद्धो, सरेइ सो सकुलधम्मनियमाई।
पडिकमिअ सुई पूइअ, गिहे जिणं कुणइ संवरणं ॥५॥ 'नमो अरिहंताणं' इत्यादिना विबुद्धः स श्राद्धः स्वकुलधर्मनियमादीन् स्मरेत् । अयमर्थः-श्रावकेण तावत् स्वल्पनिद्रेण भाव्यं, पाश्चात्यरात्रौ च यामादिसमये सकाले उत्थातव्यं, तथा सति यथा विलोक्यमानैहिकलौकिकपारलौकिककार्यसिद्ध्यादयोऽनेकगुणाः, अन्यथा तत्सीदनादयो दोषाः । लोकेऽप्युक्तं -
कम्मीणां धण संपडइ, धम्मीणां परलोअ जिहिं । सुत्तां रवि उग्गमइ, तिहिं नरआउ न ओय ॥
निद्रापारवश्यादिना यदि तथोत्थातुं न शक्नोति, तदा पञ्चदशमुहूर्ता रजनी तस्यां जघन्यतोऽपि चतुर्दशे ब्राह्म मुहूर्ते उत्तिष्ठेत्, उत्थितश्च द्रव्याधुपयोगं करोति-द्रव्यतः कोऽहं श्राद्धोऽन्यो वा ? क्षेत्रतः किं स्वगृहेऽन्यत्र वा ? उपरितलेऽधस्तले वा? कालतो रात्रिदिनं वा? भावतः कायिक्यादिना पीडितोऽहं न वा? एवमुपयोगे दत्ते निद्रानुपरमे 'नासानिःश्वासं निरुणद्धि । ततोऽपनिद्रः
१. नासां इति को० ह० प्र० पाठः ।