________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
ननु त्रिविधं त्रिविधेनेति भेदोऽत्र कुत्रापि किं न योजितः ? उच्यते, गृहिणा स्वयं पुत्रादिभिर्वा प्राक्प्रारब्धारम्भादावनुमतेनिषेधुमशक्यत्वात् । यत्पुनः प्रज्ञप्त्यादौ त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणाम्, तद्विशेषविषयम् । तथाहि-यः 4 खलु प्रविव्रजिषुरेव पुत्रादिसन्ततिपालनाय विलम्बमानः प्रतिमाः प्रतिपद्यते, यो वा विशेष स्वयम्भूरमणादिगतमत्स्यमांसादि
नृक्षेत्राद्वहि: स्थूलहिंसादिकं वा क्वचिदवस्थाविशेषेण प्रत्याख्याति, स एव त्रिविधं त्रिविधेनेति करोतीत्यल्पविषयत्वादत्र न विवक्षितम् । वि० आ० २ महाभाष्येऽप्युक्तं
केई भणंति गिहिणो, तिविहं तिविहिएण नत्थि संवरणं । तं न, जओ निद्दिष्टुं पन्नत्तीए विसेसेउं । पुत्ताइं संततिनिमित्तमित्तमेक्कारसिं पवण्णस्स । जंपंति केइ गिहिणो दीक्खाभिमुहस्स तिविहंपि ॥ जइ किंचिदप्पओअणमप्पप्पं वा विसेसिअं वत्थु । पच्चक्खेज्ज न दोसो, सयंभुरमणादिमच्छव्व ॥
'अप्पओअणंत्ति'-अप्रयोजनं काकमांसादि, 'अप्पप्पं' अप्राप्यं नृक्षेत्राद् बहिर्दन्तिदन्तचित्रकचर्मादिकं विशिष्टम् । ननु आगमेऽन्यथा श्रावकभेदाः श्रूयन्ते । यदुक्तं श्रीस्थानाङ्गे-"चत्तारि समणोवासगा पन्नत्ता, तंजहा-अम्मापियसमाणे भायसमाणे मित्तसमाणे सवत्तिसमाणे (सू० ३२१) । अथवा चत्तारि समणोवासगा पन्नत्ता, तंजहा-आयव्ससमाणे
१. विशेषे इति को० ह० प्र० पाठाः ।