________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
स्थापनाश्राद्धो लेप्यमयादिः । द्रव्यश्राद्धो भावशून्यश्राद्धक्रियाकृद् अभयकुमारबन्धनार्थचण्डप्रद्योतननृपादिष्टकपटश्राविकीभूतगणिकावत् । भावश्राद्धो भावपूर्वक श्राद्धक्रियानिष्ठः । अत्र च भावश्राद्धेनाधिकारो, नामश्राद्धादीनां नामगवादीनामिवेष्टसाध्यासाधकत्वात् । भावश्राद्धश्च त्रिविधो, दर्शनश्राद्धो, व्रतश्राद्ध, उत्तरगुणश्राद्धश्च । तत्र दर्शनश्राद्धः केवलसम्यक्त्वधारी श्रेणिकादिवत् । व्रतश्राद्धः सम्यक्त्वमूलाणुव्रतधारी सुरसुन्दरकुमारभार्या इव, तासां वचः[व्रत] पञ्चके मुनिनोपदिश्यमाने रह:स्थतद्भ; ईर्ष्यालुना मुनेः पञ्चस्वङ्गेषु पञ्च पञ्च लकुटप्रहारान् दास्ये इत्यचिन्ति । मुनिना त्वाद्याणुव्रते सदृष्टान्तमुक्ते ताभिः स्वीकृते रुष्टा अपि एता मां न मारयिष्यन्तीति हृष्टः स एकैकं प्रहारं न्यूनीचक्रे । ताभिश्चैवं पञ्चाणुव्रती स्वीचक्रे, ततः स धिम् दुर्ध्यातं मयेति भृशं सानुशयः क्षमयित्वा मुनेः पार्वे सप्रियो व्रतं लात्वा स्वर्गतः । उत्तरगुणा:-त्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि च, सम्यक्त्वाणुव्रतसहितान्येतानि धरन्नुत्तरगुणश्राद्धः सुदर्शनश्रेष्ठ्यादिवत् । अथवा सम्यक्त्वमूलद्वादशव्रतधारी व्रतश्राद्धः, उत्तरगुणश्राद्धस्तु पूर्वोक्तगुणयुक्तः सर्वसचित्तपरिहारैकाहार-त्रिविध-चतुर्विधाहार प्रत्याख्यान-ब्रह्मचर्य-भूमिशयनप्रतिमादिविशेषाभिग्रहवान् आनन्द-कामदेव-कार्तिकश्रेष्ठ्यादिवत् । एकद्व्यादिव्रतभावेऽपि च व्रतश्राद्धत्वं स्यात्, तत्र च द्वादशव्रतानामेकद्विकचतुष्कादिसंयोगैर्द्विविधं त्रिविधेनेत्यादिभङ्गयोजितैरुत्तरगुणाऽविरतरूपभेदद्वययुतैः श्राद्धभङ्गकसर्वाग्रमित्युक्तम्
तेरसकोडिसयाई, चुलसीइ जुयाइं बारस य लक्खा । सत्तासीइ सहस्सा, दुन्निसया तह दुग्गा य ॥