SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः ९० प्रदायाऽऽद्याय पुत्राय शुकराजनृपः क्रमात् । स्वं राज्यं यौवराज्यं च द्वितीयायाऽद्वितीयमुत् ॥८९६॥ प्रव्रज्य सप्रियः प्राज्योत्सवैः शत्रुञ्जयार्थ्यसौ । युक्तं शत्रुञ्जयं तीर्थं प्रतिप्रास्थित सुस्थितः ||८९७ ॥ युग्मम् । तत्राध्यारोहतस्तस्य शुक्लध्यानाधिरोहतः । प्राग् जज्ञे केवलज्ञानमहो लब्धिर्महात्मनाम् ॥८९८॥ चिरं धरित्र्यां विहरन् हरन्मोहतमो नृणाम् । भार्याभ्यामवियुक्तोऽसौ मुक्तिमाक्रमत क्रमात् ॥८९९ ॥ प्राग्भद्रकत्वादिगुणैः सुदर्शनाद्यवाप्तितन्निर्वहणादिकं फलम् । श्रुत्वेत्यपूर्वं शुकराजभूभुजस्तदर्जनायां प्रयतध्वमादृताः ॥ ९००॥ इति भद्रकत्वादिगुणेषु शुकराजनृपकथा । अथ श्राद्धस्वरूपमाह नामाई चउभेओ, सड्ढो भावेण इत्थ अहिगारो । तिविहो अ भावसड्ढो, दंसणवयउत्तरगुणेहिं ॥४॥ नामस्थापनाद्रव्यभावैश्चतुर्भेदः श्राद्धः । तत्र नामश्राद्धो गुणशून्यः श्राद्धनामधारी ईश्वरादिनामधारकदरिद्रदासादिवत् । १. अन्वर्थशून्यः इति को० ह० प्र० पाठः । b b b b b b bl श्राद्धविधिप्रकरणम्
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy