________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
तेनैवं तस्य तीर्थस्य सार्थं नाम प्रतिष्ठितम् । पृथिव्यां पप्रथे प्रोचैर्नव्यं प्रायः प्रसिद्धिभृत् ॥८८५॥ जिनेन्द्रचन्द्रं दृष्ट्वा च विनिद्रश्चन्द्रशेखरः । स्वकृतं दुष्कृतं निन्दन् पश्चात्तापमवापिवान् ॥४८६॥ ततो महोदयं वाञ्छन् महोदयमहामुनिम् । सोऽपृच्छत् स्वच्छधीः शुद्धिः स्यान्ममापि कथञ्चन ॥८८७॥
वाचं वाचंयमः प्रोचे सम्यगालोच्य यद्ययम् । तीव्र तपस्तप्यसेऽस्मिस्तीर्थे शुद्धिस्तवापि तत् ॥८८८॥ यतः-जन्मकोटिकृतमेकहेलया कर्म तीव्रतपसा विलीयते । किं न दाह्यमति बह्वपि क्षणादुच्छिखेन शिखिनाऽत्र दह्यते ॥८८९॥
श्रुत्वेत्यालोच्यमालोच्य स तत्पार्वे व्रतं श्रितः । मासिकादि तपस्तप्त्वा तत्रैव शिवमीयिवान् ॥८९०॥ अथ निष्कण्टकं राज्यं भुञ्जानः शुकराजराट् । परमार्हतभूपानामभूदेकनिदर्शनम् ॥८९१॥ द्वेधा' शत्रुञ्जयस्त्रेधा यात्राः श्रीसङ्घभक्तयः । चतुर्धा बहुधा चैत्याऽर्चादि तेन वितेनिरे ॥८९२॥ पद्मावत्यग्रहमहिषी वायुवेगापरास्य च । बह्वोऽप्यन्याः प्रियाश्चासन् नृपखेचरपुत्रिकाः ॥८९३॥ पद्मावत्याः सुतः पद्माकर: पद्माकरः श्रियाम् । सत्याह्वो वायुवेगाया वायुसारश्च विश्रुतः ॥८९४॥ जन्यो जनकसङ्काश इति याभ्यां निजैर्गुणैः । निदर्श्यतेऽच्युतसुतशम्बप्रद्युम्नवत् पुरा ॥८९५॥
१. बाह्याभ्यन्तरप्रकाराभ्यां शत्रुञ्जयः । २. पद्माकरश्रियामित्यपि पाठः ।