________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
किञ्चिदीदृक्षमाख्यान्ति न च प्रश्न विना जिनाः । औदासीन्यं केवलं हि फलं केवलसंविदः ॥८६३॥ शुकराजोऽथ शिशुवद्विलग्य स्वपितुः पदोः । प्रोचे राज्यं कथं यातु तात ! त्वय्यपि वीक्षिते ॥८६४॥ धन्वन्तरावपि प्राप्ते कोऽयमामयविप्लव': । प्रत्यक्षे कल्पवृक्षेऽपि केयं दौस्थ्यकथाप्रथा' ॥८६५॥ कैषा तमोऽतिरुदितेऽप्यादित्ये कञ्चिदीश ! तत् । तत्प्राप्त्युपायमचिरान्निरपायमुपादिश ॥८६६॥ इत्युद्युक्त्याऽत्यर्थमेवाभ्यर्थितः प्रभुरभ्यधात् । भो ! भवेदपि दुःसाधं सुसाधं धर्मकर्मणा ॥८६७॥ आसन्नमेव विमलाचलोऽयं तीर्थमादिमम् । अत्रादिमं तीर्थनाथं नत्वा स्तुत्वा च भक्तितः ॥८६८॥ इदमीयदरीमध्ये षण्मासान् स्मर्यते यदि । परमेष्ठिमहामन्त्रः स्वतन्त्रः सर्वसिद्धिषु ॥८६९॥ युग्मम् । स्वयमेव तदापति शत्रुर्वित्रस्तफेरुवत् । नंष्ट्वा जवाज्जीवनाशं विफलीभूतकैतवः ॥८७०॥ गुहामध्ये महातेजः प्रोस्फुरीति यदा तदा । तत्कार्यसिद्धिर्जातेति ज्ञेयं धेयं च चेतसि ॥८७१॥ स्वशत्रोर्दुर्जयस्यापि जयस्यौपयिकं शुकः । श्रुत्वेति तात्त्विकं सूनोरसुनूवि हृष्टवान् ॥८७२॥ ततो विमानारूढोऽसौ गत्वा श्रीविमलाचलम् । जजाप पापहृन्मन्त्रं योगीन्द्र इव निश्चलः ॥८७३॥
१. रोगोपद्रवः । २. दारिद्रयम् । ३. अस्येयं-इदमीया अस्य दरी गुहा तन्मध्ये । ४. अतिशयेन स्फुरति । ५. असूनुः पुत्रहितः सूनोः पुत्रस्य वार्ता ।
८७