________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
प्रणत्य सत्यभक्त्याऽथ प्रीतः स्फीततराऽश्रुदृक् । तातं प्रति स्वराज्यस्य भ्रंशमाशु शशंस सः ॥८५१॥ पित्रादेः प्रियमित्रस्य स्वामिनः स्वाश्रितस्य वा । निवेद्याऽपि निजं दुःखं स्यात्सुखीव सकृज्जनः ॥८५२॥ गुरुणाऽथ पुरा कर्मविपाकोऽयमितीरिते । स प्राह किं मयाऽजि ? प्राक् कर्मेदृग् गुरुरप्यवक् ॥८५३॥ जितारितः पूर्वभवे भवान् भद्रकभावभृत् । न्यायनिष्ठः ठक्कुरोऽभूद् ग्रामे श्रीग्रामनामनि ॥८५४॥ पितृदत्ताऽपरग्रामभोक्ता भ्राता च तेऽभवत् । प्रकृत्यैवान्तकनिष्टः कनिष्ठः परमातृजः ॥८५५॥ श्रीग्रामग्राममागत्य सोऽन्यदा स्वपदं व्रजन् । भवता स्थापयामास हास्याद् बन्दगृहीतवत् ॥८५६॥ उक्तश्च सुखमत्रैव तिष्ठ किं ग्रामचिन्तया । सति ज्येष्ठे कनिष्ठस्य का चिन्ता क्लेशकृन्मुधा ॥८५७॥ वैमात्रैयतया भीरुतया चान्यस्त्वतर्कयत् । हा ध्रुवं मे गतं राज्यमहहा किमिहागमम् ॥८५८॥ अथ हा किं करिष्यामीत्येषोऽतिव्याकुलस्त्वया । मुक्तः कियन्मुहूर्त्तान्ते स्वं जीवितममानयत् ॥८५९॥ तदा तु दारुणं कर्म बद्धं हास्यादपि त्वया । तस्योदयात्तवाप्यासीद्राज्यभ्रंशः सुदुःसहः ॥८६०॥ गर्विता इव कुर्वन्ति जीवाः सांसारिकी क्रियाम् । तद्विपाके तु दीनाः स्युः फालभ्रष्टप्लवङ्गवत् ॥८६१॥ यतिचन्द्रश्च तच्चन्द्रशेखरस्य विचेष्टितम् । विदन्नप्यवदन्नैव व्यक्त्याऽप्राक्षीन्न यन्नृपः ॥८६२॥