________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
मन्त्री च मुदितः कूटशुकभूपसमीपगः । प्राह तद्गमनं सोऽपि 'जहर्ष स्मरतर्षभृत् ॥८४०॥ शुकः शुक इव व्योम्नि ससंभ्रममथ भ्रमन् । हिया प्रियाप्रेरितोऽपि न ययौ श्वसुरं पुरम् ॥८४१॥ स्वपदभ्रष्टेन पदेन गम्यमुपलक्षितस्य न स्वस्य । नितरां श्वशुरस्य तु यत्तदुचितमाडम्बरस्यैव ॥८४२॥ (आर्या) यतः-सभायां व्यवहारे च वैरिषु श्वशुरौकसि । आडम्बराणि पूज्यन्ते स्त्रीषु राजकुलेषु च ॥८४३॥ विद्याभिः पूर्णो भोगाङ्गसामग्रीकोऽपि चिन्तया । स सदुःखः शून्यवासी षण्मासीमत्यवाहयत् ॥८४४॥ महात्मनामपि हहा महान् कोऽप्येष विप्लवः । कस्य वा दिवसाः सर्वे सर्वाङ्गीणसुखात्मकाः ॥८४५॥ यतः कस्य वक्तव्यता नास्ति ? को न जातो मरिष्यति ? । केन न व्यसनं प्राप्तं ? कस्य सौख्यं निरन्तरम् ? ॥८४६॥ अन्यदा तस्य सौराष्ट्रराष्ट्रे विचरतः सतः । विमानमस्खलत् खेऽपि सरित्यूरो गिराविव ॥८४७॥ दग्धोपरि स्फोटकोऽथ प्रहार: पतितोपरि । क्षारक्षेपः क्षतेऽपीति शुकोऽमस्त विहस्तहृत् ॥८४८॥ ततोऽयं स्वयमुत्तीर्य वीर्यभृत्तत्क्षणादधः । विमानस्खलनहेतुं हन्त यावद् व्यलोकयत् ॥८४९॥ तावत्केवलिनं तातमेव सौवं ददर्श सः । मन्दारमिव मेरुस्थं स्वर्णाब्जस्थं सुरैः श्रितम् ॥८५०॥
१. सहर्ष इत्यपि पाठः । २. व्याकुल हृदयः । ३. स्वकीयम् । ४. शौचमित्यपि पाठः ।