________________
प्रथमः
प्रकाशः
८४
यदस्मत्स्वामिनः पल्यौ विद्याश्चापहृतास्त्वया । अथ प्रसद्य सद्यस्तु याहि स्थानं निजं जवात् ॥८२९॥ भ्रान्तोऽयं शून्यचित्तो वा वातकी वा पिशाचकी । इत्याद्यनल्पसङ्कल्पः शुकोऽजल्पत् सविस्मयः ||८३०॥ अगादि किमिदं मन्त्रिन् ! त्वया हन्त शुकोऽस्म्यहम् । मन्त्र्यूचे खेचरैवं मामपि वञ्चयसे किमु ||८३१ ॥ मृगध्वजमहावंशसहकारशुकः शुकः । भवनेऽस्ति प्रभुर्नस्तद्रूपभृत् त्वं तु खेचरः ||८३२ ॥ किं वा बहूक्त्या नः स्वामी शुकस्ते दर्शनादपि । ओतोरिव बिभेत्युच्चैः कम्प्रः क्षिप्रमतो व्रज ॥८३३॥ शुकेन खिन्नचित्तेन चिन्तितं नियतं छलात् । मद्रूपं कोऽपि निर्माय मायावी राज्यमग्रहीत् ॥८३४॥ राज्यं भोज्यं च शय्या च वरवेश्म वराङ्गना । धनं चैतानि शून्यत्वेऽधिष्ठीयन्ते ध्रुवं परैः ||८३५ ॥ किं कार्यमथ हत्वैनं राज्यं गृह्णामि यद्यहम् । तदा लोकापवादो मे भवितैवं सुदुः श्रवः ||८३६ ॥ धूर्त्तः कोऽपि महापापी मृगध्वजनृपात्मजम् । शुकं जघान राज्यं च जग्राह ग्राहदुर्ग्रहः ||८३७॥ तेनाऽनेकेऽथ सङ्केताः प्रोक्ताः कान्ताद्वयेन च । परं न कश्चिन्मन्येत धिगहो दम्भजृम्भितम् ॥८३८ ॥ चिन्तार्त्तः शुकभूकान्तः कान्ताद्वितययुक् ततः । विमानमानी व्योम्नाऽगाद्विमानमधिरूढवान् ॥८३९॥
१. मार्जारस्य । २. ग्राहो मकरविशेषः । ३. तेन नैके इत्यपि पाठः । ४. आत्मानं विमानं मानरहितं मन्यते इति ।
aaaa
श्राद्धविधि
प्रकरणम्