________________
प्रथमः
प्रकाशः
८३
हाहाकारपराः सर्वे मन्त्र्याद्यास्तत ऐयरुः । प्रोचिरे च प्रभो ! विद्यास्तावकीना गताः क्व ताः ॥ ८१८॥ सदुःख इव सोऽवादीत् किं कुर्वेऽसौ दुराशयः । हा विद्या अप्यपाहार्षीत् प्राणानिव यमो मम ॥ ८१९ ॥ ते प्राहुर्यातु ता विद्या दयितासहिता अपि । महेश ! पिप्रियिमहे वपुषः श्रेयसैव ते ॥८२० ॥ एवं राजकुलं सर्वं कपटेन पटीयसा । प्रत्याय्य राज्यमकरोत्प्रीतिं चन्द्रवतीं नयन् ॥८२१॥ शुकोऽथ नत्वा तत्तीर्थं गत्वा श्वसुरयोः पुरे । स्थित्वा कियद्दिनीं प्राप स्वपुरोपवनान्तरे ॥८२२॥ स्वकृत्यशङ्कितश्चन्द्रशेखरस्तु गवाक्षगः । शुकमायातमालोक्य व्याकुलस्तुमुलं व्यधात् ॥८२३॥ ऊचे च सचिवं विद्याः पल्यौ च मम योऽहरत् । स एव कृत्वा मद्रूपं मामुपद्रोतुमेत्ययम् ॥८२४ ॥ तद् गत्वा तत एवाशु तं कथञ्चिन्निवर्त्तय । मृदूक्तियुक्त्या सामैव बलं हि बलिनं प्रति ॥८२५ ॥ कार्यं सुसाधं दुस्साधमपि स्याद्दक्षसख्यतः । इत्यमात्योऽन्वितो दक्षैस्तं प्रति प्राचलत्ततः ॥८२६॥ सन्मुखं मे समेत्येतत्सर्वमेवमखर्वमुत् । शुकः स्वयानादुत्तीर्य रसालतलमीयिवान् ॥८२७॥ मन्त्री च गत्वा तं नत्वा व्याजहार विचारवित् । विद्याधरेन्द्र ! शक्तिस्ते वाद्युक्तिरिव निःसमा ||८२८ ॥
१. आजग्मुः । २. प्रतीति गमयित्वा । ३. आम्रतलम् ।
श्राद्धविधिप्रकरणम्