________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
सा प्राह शुकराजस्य दृढसम्यक्त्वशालिनः । न प्रभूष्णुरहं हन्त सिंहस्येव कुरङ्गिका ॥८०७॥ शिष्टं तेनापि तुष्टा चेद्देवी' त्वं च दधासि चेत् । बलेनापि छलेनापि तद्विधेयं विधेहि मे ॥८०८॥ इत्याद्युक्त्या च भक्त्या च तोषिता देवताऽवदत् । छलौपयिकमेवास्ति न बलौपयिकं त्विह ॥८०९॥ शुकराजे गतेऽन्यत्र व्रजेस्त्वं तत्र सत्वरम् । मत्प्रभावाच्च ते भावि शुकसारूप्यमेव हि ॥८१०॥ तद्राज्यं स्वेच्छया भोज्यमित्युक्त्वा सा तिरोऽभवत् । सोऽपि प्रीतः स्वरूपं तच्चन्द्रवत्यै न्यवेदयत् ॥८११॥ शुकराजोऽन्यदा यात्रोत्कण्ठया स्वप्रियाद्वयम् । प्रोचे प्रिये प्रयास्यामि तीर्थ नन्तुं तमाश्रमम् ॥८१२॥ ते प्राहतुः सहेष्याव आवामपि यतस्ततः । यस्मात्पित्रोरपि भवेत् सङ्गमः प्रीतिसङ्गमः ॥८१३॥ ततस्ताभ्यां युतः कस्याऽप्यनुक्त्वैव स दैवतः । विमानयानः प्राचालीन ज्ञातोऽपि च केनचित् ॥८१४॥ चन्द्रवत्या च तद्वृत्तं ज्ञापितश्चन्द्रशेखरः । तत्पुरं प्रविवेश द्राक् परकायमिव च्छलात् ॥८१५॥ जातश्च शुकरूपेण ज्ञातश्च शुक एव सः । सर्वैरपि जनैः कूटसुग्रीव इव दम्भवान् ॥८१६॥ रात्रौ पूत्कृत्य चोत्तस्थौ भो भो धावत धावत । अपहृत्य हि मत्पल्यो विद्याभृद्याति यात्ययम् ॥८१७॥
१. "देवी त्वं च ददासि चेत्' इत्यपि पाठः ।