SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रथमः श्राद्धविधिप्रकरणम् प्रकाशः AAAAA AAAAAAAAAAA तदेयुः शुकराजाद्याः सप्रमोदाः सविस्मयाः । राजर्षिश्च 'सुधादेश्यामादिदेशेति देशनाम् ॥७९६॥ भव्याः ! साधुश्राद्धधर्मों सेतुबन्धौ भवाम्बुधौ । अवक्रवक्री विषमसमौ यात यथेप्सितम् ॥७९७।। तदा कमलमालाऽर्हद्धर्महंसश्च' हंसराट् । चन्द्राङ्कश्च प्रबुध्याऽऽत्तव्रताः सिद्धास्त्रयः क्रमात् ॥७९८॥ दृढसम्यक्त्वपूर्वं च यथाशक्ति शुकादयः । यतिधर्मकृतश्रद्धाः श्राद्धधर्म प्रपेदिरे ॥७९९।। असत्याश्चन्द्रवत्यास्तु दुर्वृत्तं नौच्यत क्वचित् । राजर्षिणाऽपि चन्द्राङ्केनाऽपि वैराग्यवत्तया ॥८००॥ किं नाम सम्यग्वैराग्येऽन्येषां दोषप्रघोषणैः । भवाभिनन्दिनामेव परिवादे विदग्धता ॥८०१॥ स्वश्लाघा परनिन्दा च लक्षणं निर्गुणात्मनाम् । परश्लाघा स्वनिन्दा तु लक्षणं सद्गुणात्मनाम् ॥८०२॥ पादन्यासैः पुपावोर्वी ततोऽसौ ज्ञानिभानुमान् । राज्यं च पालयामास शुकः शक्रपराक्रमः ॥८०३॥ दुायशेखरश्चन्द्रशेखरः पुनरन्यदा । चन्द्रवत्यामतिस्निह्यन् द्रुह्यन् शुकमहीभुजे ॥८०४॥ भृशं क्लेशवशाद्राज्याधिष्ठात्री गोत्रदेवताम् । चिरादाराधयाभास धिक्कामान्धकदाग्रहम् ॥८०५॥ सापि प्रत्यक्षता प्राप्ता प्रोचे वत्स ! वरं वृणु । तेनोक्तं शकराजस्य राज्यं देवि ! प्रदेहि मे ॥८०६।। १. अमृततुल्याम् । २. अर्हद्धर्मे हंसरूपः ।
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy