________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
तदा ते प्राज्यराज्यं स्यादहं च वशवर्तिनी । श्रुत्वेत्यतर्कितात्युग्रघातात इव सोऽब्रवीत् ॥७६७॥ मातः ! किमिदमश्रव्यमवक्तव्यमयुक्तकम् । ब्रवीषि साब्रवीन्नाह सुभग ! स्यां प्रसूस्तव ॥७६८॥ किन्तु चन्द्रावती राज्ञी मृगध्वजमहीभुजः । इति श्रुत्वाशु तत्त्वार्थं ज्ञातुमातुरमानसः ॥७६९॥ तदीयां दुःश्रववाचमवमन्य स सत्यधीः । पित्रोर्वीक्षापरीक्षार्थं निर्गतोऽद्य च तेऽमीलत् ॥७७०॥ युग्मम् । सा बकीवोभयभ्रष्टा पतिपुत्रवियोगिनी । वैराग्याद्योगिनी जज्ञे जैनसाध्व्याद्ययोगतः ॥७७१॥ साऽहं यशोमती सम्यग् भवभावनयाऽऽशु मे । उत्पेदानं कियज्ज्ञानं जाने तेनाखिलं ह्यदः ॥७७२॥ तेनैव दक्षयक्षेणाऽन्तरीक्ष्योक्त्या मदन्तिके । प्राहायिष्टा मयाप्येत्तदाख्याहि यथास्थितम् ॥७७३॥ इत्यनाकर्ण्यमाकर्ण्य चुक्रोधोच्चैश्चिखेद च । 'महीन्दुर्गृहदुर्वृत्ताच्चित्तं कस्य न दह्यते ॥७७४॥ ततस्तत्प्रतिबोधार्थं साऽभ्यधान् मधुरध्वनिः । योगिनी योगिनीवाणीरीत्या सत्यार्थवेदिनी ॥७७५॥ कवण केरा पुत्र मित्रा रे, कवण केरी नारी । मुहिआं मोहिओ मेरी मेरी मेरी, मूढ भणइ अविचारी ॥७७६॥
१. माता । २. अन्तरीक्षोक्त्या इत्यपि पाठः । ३. राजा ।