________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
आराधितस्ततस्तेन कामदेवाख्ययक्षराट् । प्रत्यक्षः क्षिप्रमाचख्यौ किं कुर्वे तव भोः प्रियम् ॥७५६॥ सोऽवक् चन्द्रवती मे द्राग् देहि यक्षस्ततोऽञ्जनम् । तस्मै दत्त्वाऽब्रवीदस्माददृश्यीकरणाञ्जनात् ।।७५७॥ न मृगध्वजराड् यावद् द्रष्टा चन्द्रवतीसुतम् । तया विलासिनं तावन्न त्वां ज्ञास्यति कश्चन ॥७५८॥ युग्मम् । तस्मिन् दृष्टे पुना राज्ञा स्फुटीभाव्यखिलं ह्यदः । इति यक्षोक्तिहष्टोऽसौ ययौ चन्द्रवतीगृहम् ॥७५९।। स्वैरं चिरं तत्र तिष्ठन् अदृश्योऽञ्जनयोगतः । सोऽजीजनच्चन्द्रवत्यां पुत्रं चन्द्राङ्कनामकम् ॥७६०॥ यक्षप्रभावान्न ज्ञातं तस्य जन्मादि केनचित् । जातमात्रं च तं पुत्रं स्वप्रियायै स आर्पयत् ॥७६१॥ सा तं यशोमती त्वात्मजातबालमपालयत् । पत्युरास्यमप्यपश्यन्त्यहो स्नेहो मृगीदृशाम् ॥७६२॥ क्रमात्तं स्फारतारुण्यलावण्योल्लासशालिनम् । निध्याय दध्यूषी सोच्चैर्वियोगार्ता यशोमती ॥७६३॥ चन्द्रवत्यां भृशासक्तिचेतसं चन्द्रशेखरम् । नित्यप्रोषितकान्तेव जातु प्रेक्षेऽपि नो पतिम् ॥७६४॥ एनमेवाथ शरणं रमणीयं विधाय तत् । पालितस्येव 'सालस्य गृह्णाम्यस्य स्वयं फलम् ॥७६५॥ एवं ध्यात्वा च हित्वा च विवेकच्छेकतामियम् । तमभाषत भो भद्र ! मां त्वमाद्रियसे यदि ॥७६६॥
१. वृक्षविशेषस्य ।