________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
इत्युक्त्वा 'दुस्तमःसूरः सूरः स्वस्थानमाप्तवान् । प्रावाजीदविलम्बं च धर्मे श्लाघ्या त्वरैव हि ॥७३४॥ यो यन्मनास्तदासक्तं सोऽन्यं दृष्ट्वा तदुत्सुकः । स्यादिति क्षितिपोऽप्युच्चैर्दीक्षात्को दध्यिवान्स्तदा ॥७३५॥ नाद्यापि किं मे वैराग्यरङ्गः सङ्गमकृन्मुदा । यद्वा केवलिना ज्ञानबलिना जगदे तदा ॥७३६॥ तदा ते भविता सम्यग् वैराग्यं योग्यतावशात् । यदा कदाचित्त्वं चन्द्रवत्याः प्रेक्षिष्यसेऽङ्गजम् ॥७३७॥ तस्यास्तु पुत्रो नाद्यापि वन्ध्याया इव जायते । तत्कि कुर्यामिति ध्यायेद्यावत् क्ष्माभृद्रहःस्थितः ॥७३८॥ तावत्तत्रोरुतारुण्यपुण्यः कोऽप्यागमत् पुमान् । अनंसीच्च नरेशाय कस्त्वं तेनाऽप्यपृच्छयत ॥७३९॥ प्रतिवक्ति स तं यावत्तावदाविरभूदिवि । दिव्या वाग् भूप ! विज्ञेयश्चन्द्रवत्याः सुतो ह्ययम् ॥७४०॥ तवाऽत्र यदि सन्देहस्तदेशान्यामितो दिशि । पञ्चैव योजनान्यद्रिद्वयान्तः कदलीवनम् ॥७४१॥ आस्ते यशोमती तत्र योगिनी ज्ञानयोगिनी । प्रष्टव्या सा समस्तं ते वृत्तान्तं व्याहरिष्यति ॥७४२॥ इत्याकर्ण्य धरित्रीशः प्रोच्चैश्चित्रीयमाणहृत् । पुंसा तेन सहेशानदिशि तत्राशु जग्मिवान् ।।७४३॥ ददर्श योगिनीं तां च साऽऽपि प्रीत्याऽऽह तं प्रति । भूभर्तः ! सत्यमेवैतत् यत् त्वया शुश्रुवे वचः ॥७४४॥
१. दुरन्धकारे सूर्यः । २. दीक्षोत्सुकः ।