________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
यतः-चोरा चिलक्काई गंधिअ भट्टा य विज्जपाहुणया । वेसा धूअनरिंदा परस्स पीडं न याणंति ॥७२३॥ ध्यायन्नित्येष पन्थानमजानन्नवटवीमटन् । भ्रामं भ्रामं म्रियते स्म क्षुत्तृषाद्यार्त्तरौद्रहृत् ॥७२४॥ स च सर्पः स्फुरद्दर्पोऽभूद् भद्दिलपुरे वने । तेन तत्रागतो मन्त्री दष्टो रुष्टात्मना मृतः ॥७२५॥ सर्पः सोऽपि मृतः प्राप नरकं नरकात्पुनः । उद्धृतोऽजनि वीराङ्गभूपपुत्रो भवानयम् ।।७२६॥ मन्त्री च मृत्वा विमलाचले वापीजलेऽजनि । मरालबालस्तत्तीर्थं दृष्ट्वा स्वां जातिमस्मरत् ॥७२७॥ सम्यङ् नाराधितः स्वामी प्राक् तत्तिर्यक्त्वमाप्नुवम् । ध्यात्वेति जिनमानर्च चंञ्च्वानीतैः रेसुमैरयम् ।।७२८॥ भृत्वाऽम्भोभिरुभौ पक्षौ "सार्वमुख्यमसिस्नपत् । इत्याद्याराध्य मृत्वाऽसौ सौधर्मे निर्जरोऽजनि ॥७२९॥ ततश्च्युत्वाऽधुना पुण्यैगध्वजमहीभुजः । हंसराजाङ्गजो जातोऽस्तीति श्रुत्वा मुनेर्वचः ॥७३०॥ तत्प्राग्भवभवं वैरं स्मरन् जातिस्मृतेरिव । हंसं हन्मीत्यहं जल्पन्नहङ्कारादिहागमम् ॥७३१॥ युग्मम् । वार्यमाणोऽपि पित्राऽहं तदानीं नैव तस्थिवान् । इहागतस्तु निर्जिग्ये 'युग्ये त्वत्सूनुनाऽधुना ७३२॥ एतस्मादेव वैराग्याद् भाग्यादासादितादहम् । दीक्षां कक्षीकरिष्यामि स्वामिश्रीदत्तसन्निधौ ॥७३३॥
१. शिशवः । २. पुत्री । ३. कुसुमैः । ४. मुख्यजिनम् । ५. युद्धे ।