________________
• ऋषिभाषितानि
२३५
- अनन्तरोक्तं शल्योद्धरणमपि सुखमेव फले हेतूपचारात् सुखहेतुरेव । गौरवपरिहारायोत्साहयंस्तत्राद्यस्य विपाकमुपदर्शयति इंदासणी ण तं कुज्जा दित्तो वण्ही अणं अरी। आसादिज्जंतसंबंद्धो जं कुज्जा रिद्धिगारवो ।।
।।४५-४३।। इन्द्राशनिः शक्रायुधं वज्रम्, तत् - प्रत्यपायविशेषं न कुर्यात्, दीप्तः - जाज्वल्यमानः, वह्निः - अनलः, ऋणम्उद्धारः, अरिः - शत्रुः, एतेऽपि तद्दुःखमुत्पादयितुमसमर्थाः, यद्दुःखमासाद्यमानः - विभवाद्यनुभावनेनाभ्यस्यमानः, अत एव सम्बद्धः - आत्मनि परिणतः, ऋद्धिगौरवः प्रवरवस्त्रादिभिरात्मोत्कर्षसम्भावनम्, कुर्यात्, तस्य क्लिष्टकर्मबन्धहेतुत्वेनानेकभवसहस्रेषु क्षुद्रतादिप्रयुक्तदुःखसन्दोहनिबन्धनत्वात्, इन्द्राशनिप्रभृतेस्तु सकृदेव दुःखदायकत्वात् । गौरवान्तरदुर्विपाकं निदर्शयति
-
-
-
सगाहं वा सरं बुद्धं विसं वा महुजोजितं ।
सामिसं वा णदीसोयं साताकम्मं दुहंकरं । । ४५-४४ ।। यथा बुद्धम् कमलवनावच्छेदेन विकसितम्, किन्तु सग्राहम् - हिंस्रजलजन्तुसहितम्, सरः - कासारः, यथा वा मधुयोजितं विषम्, यथा वा सामिषम् - मत्स्यादिप्रलोभनाय
-
१. क. ख.ग.ज.ट. ठ.ढ. ण. थ.ध.प संबद्धो घ त सम्बन्धो च.झ संबंधो। न. फ संबद्धो । २. क.घ.ढण. ध.न.प.फ.त. मणुजोजितं । ख.ज.ठ.थ - महुजोजितं । ट हुमणुजोजितं । च वामाणुजोजितं ।
महजोजितं । झ
आर्षोपनिषद् न्यस्तैर्मनोज्ञैर्भोज्यैः सहितम्, नदीस्रोतः - तरङ्गिणीप्रवाहः, यथा त्रितयमप्येतदापातमनोरममपि विपाकदारुणं भवति, तथा शातकर्म - शातगौरवाधीनतयाऽनुष्ठितं शरीरशुश्रूषादिकृत्यम्, दुःखङ्करम् नारकयातनादिविधातृ भवति ।
अत्रानुक्तोऽपि रसगौरवविपाकोऽवगन्तव्यः, प्रागनेकशो मत्स्यदृष्टान्तेनोक्तत्वात्, गौरवत्रितयस्य चेदमार्षोदितं स्वरूपम् पवराइं वत्थपायासणोवगरणाई एस विहवो मे । अवि य महाजणनेया अहं ति अह इड्ढिगारविओ ।। अरसं विरसं लूहं जहोववन्नं च निच्छए भुत्तुं । निद्धाणि पेसलाणि य, मग्गइ रसगारवे गिद्धो ।। सुस्सुसइ सरीरं, सयणासणवाहणापसंगपरो। सायागार - वगुरुओ दुक्खस्स न देइ अप्पाणं - इति ( उपदेशमालायाम् ३२४-३२६) । तदेतद्गौरवादिवशवर्तिनमधिकृत्याह
२३६
-
कोसीकित व्वसी तिक्खो भासच्छण्णो व पावओ। लिंगवेसपलिच्छण्णो अजियप्पा तहा पुमं । ।
।।४५-४५।। कोशीकृतः - - कोशे न्यस्त इव तीक्ष्णः - निशातः, असिः तरवारः, यथा वा भस्मच्छन्नः पावकः - अग्निः, तथा लिङ्गम् रजोहरणादि, वेषः श्वेतवस्त्रादिः ताभ्यां प्रतिच्छन्नः - अपह्नुतगौरवादिदोषः, अजितात्मा इन्द्रियकषायवशग:, पुमान् - पुरुषः । यथोक्तासिप्रभृतिः कोशाद्यावरणावृततीक्ष्णत्वादिदोषो भवति तथाऽसावपीत्याशयः, एतेनास्य प्रच्छन्नपापतया पापतरताऽऽवेदिता । किञ्च -
-
-