________________
6 ऋषिभाषितानि
२३३
जाइजरामरणसागरुत्तारे। जिणवयणंमि गुणायर ! खणमवि मा काहिसि पमायं - इति ( उपदेशमालायाम् १२३) ।
किञ्च प्रतिपन्नानुष्ठानपरिहारतः प्रकटमेव लाघवमित्युदा
हरति
-
बद्धचिंधो जधा जोधो वम्मारूढो थिरायुधो । सीहणायं विमुचित्ता पलायंतो ण सोभती।।
।।४५-३९।।
यथा बद्धचिह्नः सुभटलक्ष्मालङ्कृतः, वर्मारूढःवर्मितः कवचित इति यावत्, स्थिरायुधः - धीरतादिशूरगुणप्रतिपादकस्थैर्यविशेषेण गृहीतमायुधं चापादि येन सः, योध:- योद्धा, सिंहनादम् - सिंहवत् क्रियमाणां वीरगर्जनाम्, विमुच्य - परेषु साध्वससम्पादकतया प्रयुज्य पलायन् प्रहारादिवेदना - भीरुतया रणभूमेरपसरणं विदधन्, न शोभते - नैव शोभास्पदतामृच्छति, लाघवपात्रं जायत इति यावत् । निदर्शनान्तरमाह
अगंधणे कुले जातो जधा णागो महाविसो । मंचिता सविसं भूतो पियंतो जाति लाघवं ।।
-
।।४५-४०।।
यथाऽगन्धने कुले जातो महाविषो नागः स्वविषम् स्वकीयं क्ष्वेडः, मुक्त्वा - मुखाद् बहिर्निसार्य, कञ्चिद्दष्ट्वेति यावत्, भूयः पुनरपि तदेव विषं पिबन् - निगिलन्, लाघवं याति निन्दापात्रीभवति, वान्ताशनस्य स्वरूपत एव दुष्टत्वात्, कुलीनानां च दुष्टाचरणस्य दुष्टतरत्वात्, एतदेवाह -
-
-
आर्षोपनिषद् जधा रुप्पिकुब्भूतो रमणिज्जं पि भोयणं । तं पुणोस भुंजतो धिद्धिकारस्य भायणं । ।
२३४
।।४५-४१ ।। महाश्रेष्ठी,
यथा रुक्म- सुवर्णम्, तदस्त्यस्येति रुक्मी तत्कुलम् - रुक्मिकुलम् तस्मिन्नुद्भूतः - प्रसूतः कश्चिद् बालो रमणीयमपि भोजनं सकृद्वान्त्वा पुनर्वान्तं तद् भुञ्जन् स धिक्धिक्कारस्य - अतिन्यक्कारस्य, भाजनम् पात्रम्, जायते । एवं प्रतिज्ञातप्रतिपालनादपसरन् सकृत्त्यक्तं चोपाददानस्तिरस्कारं लभते, अतोऽतिदुर्लभमिदं कथञ्चिदुपलब्धं जिनशासनं परित्यक्तप्रमादैः प्रतिपालनीयमेवेत्युपनयो योजित एव । इत्थमेव सुखसन्दोहसिद्धिरपीत्याह
-
एवं जिणंद आणाए सल्लुद्धरणमेव य । णिग्गमो य पलित्ताओ सुहिओ सुहमेव तं ।।
।।४५-४२।। एवम् - अनन्तरोक्तजिनशासनमाहात्म्यविभावनेन, जिनेन्द्राज्ञया शल्योद्धरणमेव कुर्यात् - पूर्वकृतप्रमादाचरणालोचनादिना पापशल्यानामात्मनः सकाशान्निष्कासनं कुर्यात्, चकारात् पूर्वोक्तमप्रमादाचरणं चानुसन्दध्यात्।
यद्वा
मायानिदानमिथ्यात्वलक्षणशल्यत्रितयोद्धारं कुर्यात्, चकाराद् वक्ष्यमाणगौरवत्रिकपरित्यागं विदध्यादित्यर्थः ।
यथा च प्रदीप्ताद् गृहादेर्निर्गमः क्रियमाणः सुहितः - दाहाद्यपायपरिहारनिबन्धनत्वेनात्यन्तं हितकारको भवति, तथा तत्