________________
-२३१
न-ऋषिभाषितानि - पयंडस्स णरिंदस्स कंतारे देसियस्स य। आरोग्गकारणो चेव 'आणाकोवो दुहावहो।।
॥४५-३५॥ प्रचण्डस्य - उग्रप्रतापस्य, नरेन्द्रस्य नृपस्य, कान्तारे च देशिकस्य - मार्गोपदेशकस्य, आरोग्यकारणः, षष्ठ्यर्थे प्रथमा, ततश्चारोग्यकारणस्य - वैद्यस्य, चैव- समुच्चये, त्रयाणामप्येषामाज्ञाकोपः - नियोगातिक्रमः, दुःखावहः - वधादिव्यथाकारको भवति। अनतिक्रमे तु त एव सौख्यसृज इत्याह -
सासणं जं णरिंदाओ कंतारे जे य देसिया। रोगुग्घातो य वेज्जातो सव्वमेतं हिए हियं।।
॥४५-३६॥ यन्नरेन्द्रात् प्राप्तं शासनम्, कान्तारे च ये देशिकाः, वैद्याच्च रोगोद्घातः, एतत्सर्वं हिते - स्वकल्याणविधौ, हितम् - उपष्टम्भकम्। एवं गाथायुगलेन दृष्टान्तमभिधाय दार्टान्तिक
२३२
- आर्षोपनिषद् - शासनातिक्रमः, सर्वदेहिनाम् - अशेषजीवानाम्, दुःखसंवाहे - अपरापरदुःख - संवहनैकस्वरूपे, संसारे - चतुर्गतिकसंसरणे, दुस्तारः - दुःखनिस्तरणप्रयोजकः, भवति, जिनाज्ञोल्लङ्घनकारी भवसागरं न सुखेन तरितुं शक्नोति, ततश्च दुर्गतिपथपथिकानामेषां कोटिशो विनिपात एव, उक्तं च - जह नरवइणो आणं, अइक्कमंता पमायदोसेणं। पावंति बंधवहरोहछिज्जमरणावसाणाई।। तह जिणवराण आणं, अइक्कमंता पमायदोसेणं। पावंति दुग्गइपहे विणिवायसहस्सकोडीओ - इति (पुष्पमालायाम् १८६-१८७)। यत एवं तस्मात् -
तेलोक्कसारगुरु धीमतो भासितं इमं। सम्मं काएण फासेत्ता पुणो ण विरमे ततो।।
॥४५-३८।। धीमतः - केवलज्ञानदर्शनरूपपरमप्रेक्षाशालिनः, इदम्प्रत्यक्षत उपलभ्यमानम्, त्रैलोक्यसारगुरुकम्, तन्माहात्म्यस्याग्रतस्त्रैलोक्यस्यापि तृणायमानत्वात्, भाषितम् - प्रवचनम्, सकृत् सम्यक् - भावसारम्, कायेन स्पृष्ट्वा - अनुष्ठानगोचरीविधाय, पुनस्ततः प्रमादादिना न - नैव, विरमेत् - अनुष्ठानोपरति कुर्यात्, को नु सकर्णोऽमृतस्य तृप्यतीति !, किञ्चैतद् भवलक्षदुर्लभमनन्तदुःखसमुद्रोत्तारकं चेत्यत्र क्षणमपि न युज्यते प्रमाद इति भावनीयम्, तथा चार्षम् - भवसयसहस्सदुल्लहे,
माह
आणाकोवो जिणिंदस्स सरणस्स जुतीमतो। संसारे दुक्खसंवाहे दुत्तारो सव्वदेहिणं।।४५-३७।।
शरण्यस्य द्युतिमतो जिनेन्द्रस्याऽऽज्ञाकोपः - १. क.ख.ज.ट.ठ.ढ.ण.थ.ध.न.प - आणाकोवो । ग.घ.च.झ.त . आणाकोहो । फ - आणोकोवो। २. क.ख.ज.ट.ठ.ढण.थ.ध.न.प.फ - देसिया । ग.घ.च.झ.त - देसगा। द - देसेया। ३. क.ण - रागुघातीय । ख - रोगुघाताय । ग - रोगो घातो य । घ.च.झ.त - गोरुग्घातो य। द - रोगुधातो। ज.ट.ठ ढ.थ.ध.न.प.फ - रोगुघातीय।
१. क.ग.च.ज.ट.ठ.ढ़.ण.ध.द.ध.न.प.फ - गुरुअं। ख - गुरुआं । घ.त. गरुयं । झ - गरुअं।