________________
770 ऋषिभाषितानि
नन्दनचन्दनद्रुमनिभप्रज्ञोल्लसत्सौरभः । भ्राम्यद्भिः परदर्शनग्रहगणैरासेव्यमानः सदा, तर्कस्वर्णशिलोच्छ्रितो विजयते जैनागमो मन्दरः ।। स्याद्दोषापगमस्तमांसि जगति क्षीयन्त एव क्षणा - दध्वानो विशदीभवन्ति निबिडा निद्रा दृशोर्गच्छति । यस्मिन्नभ्युदिते प्रमाणदिवसप्रारम्भकल्याणिनी, प्रौढत्वं नयगीर्दधाति स रविजैनागमो नन्दतात्।। अध्यात्मामृतवर्षिभिः कुवलयोल्लासं विलासैर्गवां, तापव्यापविनाशिभिर्वितनुते लब्धोदयो यः सदा । तर्कस्थाणुशिरःस्थितः परिवृतः स्फारैर्नयैस्तारकैः सोऽयं श्रीजिनशासनामृतरुचिः कस्यैति नो रुच्यताम् - इत्यादि (अध्यात्मसारे १९ / १-५) । किञ्च
२२९
सव्वणुसासणं पप्पा विण्णाणं पवियंभते । हिमवंतं गिरिं पप्पा तरूणं चारु वागमं । । ४५ - ३३ ।। यथा हिमवन्तं गिरिं प्राप्य योग्याश्रयानुभावेन तरूणां चारु - सुन्दर:, आगम: - पत्रपुष्पफलाद्युद्गमः शाड्वलता वा भवति, तथा सर्वज्ञशासनं प्राप्य विज्ञानम् शब्दार्थाद्यवगमः प्रविजृम्भते प्रकर्षेण तात्पर्यादिसर्वोपाधिशुद्ध्याऽऽविर्भवति, तदाह- शब्दो वा मतिरर्थ एव किमु वा, जातिः क्रिया वा गुणः, शब्दार्थः किमिति स्थिता प्रतिमतं सन्देहशङ्कुव्यथा । जैनेन्द्रे तु मते न सा प्रतिपदं जात्यन्तरार्थस्थिते:, सामान्यं च विशेषमेव च यथा
-
१. क. ख. ज. ट . ठ ढ ण... ध.न.प.फ पप्पा ग घ च झत पप्प। २. क. ढ - चारु वागमं । खथ वारुवामगं ग बागमो ज ठ
चारु
चारुचामगं । घ च झत वारुवामगं ।
चारुवामगं ध.न.प.फ
आर्षोपनिषद् तात्पर्यमन्विच्छति।। यत्रानर्पितमादधाति गुणतां मुख्यं तु वस्त्वर्पितं, तात्पर्यानवलम्बनेन तु भवेद् बोधः स्फुटं लौकिकः । सम्पूर्णं त्ववभासते कृतधियां कृत्स्नाद्विवक्षाक्रमात् । तां लोकोत्तरभङ्गपद्धतिमयीं स्याद्वादमुद्रां स्तुमः ।। आत्मीयानुभवाश्रयार्थविषयोऽप्युच्चैर्यदीयक्रमो, म्लेच्छानामिव संस्कृतं तनुधियामाश्चर्यमोहावहः । व्युत्पत्तिप्रतिपत्तिहेतुविततस्याद्वादवाग्गुम्फितं, तं जैनागममाकलय्य न वयं व्याक्षेपभाजः क्वचित् - इति ( अध्यात्मसारे १९ / १०-१२ ) | इत्थं च जैनागमपरिभावनात् -
२३०
सत्तं बुद्धी मती मेधा गंभीरतं च वढती ।
ओसधं वा सुई कंतं जुज्जए बलवीरियं । ।४५-३४।। सत्त्वादि - प्राग्व्याख्यातम्, वर्धते स्फातिं प्रपद्यते, यथा शुचि, शुद्धद्धव्ययोगेन निर्मितत्वात् कान्तम्, स्वादुतादिगुणोपेतत्वात्परिणामरम्यत्वाच्च, औषधं भवति, तथा जिनवचनमपि, यस्य सम्यगुपयोगेन बलम् कर्मारातिपराहतिप्रयोजकस्थामम्,
वीर्यम् - तपः संयमयोः पराक्रमः, बलोपेतं वीर्यम् - बलवीर्यम्, तद्युज्यते - जिनशासनप्रतिबद्धात्मनि समनुस्यूतीभवति । एवं सुखहेतुरपि जिनशासनं विपरीतानां विपरीतं भवतीति निदर्शयति -
-
१. क.ग.ज.ट. ठ...ध.न.प. सुई कंतं । ख सुई कंत घत सुयक्कन्तं ।
च सुई कन्तं । झ सुयक्कतं । ढ सुइकंतं । फ सुइकंते ।