________________
Re-ऋषिभाषितानि -
-२२७ वण्डिं सीताहतो वा वि णिवायं वाऽणिलाहतो। तातारं वा भउव्विग्गो अणत्तो वा धणागम।।
॥४५-२९।। शीताहतो वाऽपि - शिशिरबाधितः, वह्निम् - अग्निम्, अनिलाहतः - पवनपीडितः, यथा निर्वातम् - समीरणशून्यं स्थानम्, भयोद्विग्नः - चौरादिभीतिनिर्विण्णः, यथा त्रातारम् - गोप्तारम्, यथा ऋणातः - सततं वृद्धिमापद्यमानादृणाद्दुःखितः, धनागमम्- वाणिज्यादौ विशिष्टद्रविणलाभम्,
गंभीरं सव्वतोभदं हेतु-भंग-णयुज्जलं। सरणं पयतो मण्णे जिणिंदवयणं तहा।।४५-३०।।
तथाऽहमपि गम्भीरम्, गभीरभावावभासित्वात्, सर्वतोभद्रम् - सकलथाऽपि विचार्यमाणं कल्याणनिबन्धनम्, हेतवःसत्तर्कयुक्तिप्रभृतयः, भङ्गाः - द्रव्यानुयोगादिभेदाः सप्तभङ्गी वा, नयाः - नैगमादयः, तैरुज्ज्वलम् - प्रकाशमानम्, जिनेन्द्रवचनं प्रयतः - भावसामग्र्यसम्पन्नः शरणं मन्ये - अनन्यशरणतया श्रद्दधे, भवभयोद्विग्नानां स्ववचनद्वारेण जिनेन्द्राणां साक्षात् संरक्षकत्वात्, तदुक्तम् - नयप्रसङ्गा - परिमेयविस्तरैरनेकभङ्गाभिगमार्थपेशलैः। अकृत्रिमस्वादुपदैर्जनं जनं जिनेन्द्र ! साक्षादिव पासि भाषितैः - इति (सिद्धसेनीद्वात्रिंशिकायाम् १-१८)। सर्वथाऽपि स्वभावसुन्दरं जिनशासनमित्युपमाभिरभिदधन्नाह
२२८
आर्षोपनिषद् - सारदं व जलं सुद्धं पुण्णं वा ससिमंडलं। जच्चमणि घट्ट वा थिरं वा मेतिणीतलं।।४५-३१।।
यथा शुद्धं शारदं जलम्, शरदृतौ पानीयं निसर्गत एवापगतमलं सञ्जायत इति, यथा पूर्णं शशिमण्डलम् - चन्द्रवर्तुलम्, तदपि राकायां स्वभावेनैव सम्पूर्णं भवति, यथा च घृष्टः- घर्षणप्रक्रिययोज्ज्वलतां प्रापितः, जात्यमणिः - उच्चजातीयरत्नम्, यथा वा स्थिरम् - प्रकृत्या स्थैर्यगुणोपेतम्, मेदिनीतलम् - पृथिवीतलम्,
साभावियगुणोवेतं भाव(स?)ते जिणसासणं। ससितारापडिच्छण्णं सारदं वा णभंगणं।।४५-३२।।
यथा च शशिताराप्रतिच्छन्नम् - चन्द्राद्युपशोभितम्, शारदम् - शरदृतुसत्कं नभोऽङ्गणम् - व्योम, तथा जिनशासनमपि स्वाभाविकगुणोपेतम् - नैसर्गिकैः समुद्रादिभिरुपमितैः स्याद्वादमुद्रादिभिर्गुणैरलङ्कृतम्, भासते - प्रकाशते, यथोक्तम् - उत्सर्पद्व्यवहारनिश्चयकथाकल्लोलकोलाहल - त्रस्य(यवादिकच्छपकुलभ्रश्यत्कुपक्षाचलम्। उद्यधुक्तिनदीप्रवेशसुभगं स्याद्वादमर्यादया, युक्तं श्रीजिनशासनं जलनिधिं मुक्त्वा परं नाश्रये।। पूर्णः पुण्यनयप्रमाणरचनापुष्पैः सदास्थारसैस्तत्त्वज्ञानफलः सदा विजयते स्याद्वादकल्पद्रुमः। एतस्मात् पतितैः प्रवादकुसुमैः षड्दर्शनारामभू-भूयः सौरभमुद्रुमत्यभिमतैरध्यात्मवार्तालवैः।। चित्रोत्सर्गशुभापवादरचनासानुश्रियाऽलङ्कृतः, श्रद्धा१. क.ख.ग.ज.ट.ठ.ढ ण थ.ध.न.प.फ - भावते । घ.च.झ.त - भासते ।