________________
Re-ऋषिभाषितानि -
- २२५ आमर्शोषध्यादयश्च लब्धयः, चकारौ समुच्चये, न दुर्लभाः, अपि तु सुलभा एव, शिवशर्मदस्य तावद्दानेऽसीदनात्, उक्तं च - यत्र भावः शिवं दत्ते द्यौः कियट्रवर्तिनी। यो नयत्याशु गव्यूतिं क्रोशार्धे किं स सीदति - इति (इष्टोपदेशे ४)। अभिनन्दनीयं च जैनं मतमित्युपमयाऽभिधत्ते -
मणं जधा रम्ममाणं णाणाभावगुणोदयं। फुल्लं च पउमिणीसंडं सुतित्थं गाहवज्जितं ।।
॥४५-२६॥ यथा नानाभावाः - पुष्करपत्रहंसिनीविमलसलिलादयः, तेषां गुणा: - मुक्ततोयत्वप्रभृतयः, तेषामुदयः - प्रादुर्भावो यत्र तत् - नानाभावगुणोदयम्, फुल्लम् - विकचितम्, पद्मिनीषण्डम् - कमलिनीवनम्, ग्राहवर्जितं च हिंस्रजलजन्तुरहितम्, सुतीर्थ - शोभनो जलावतारः, एते यथा मनो रमयतः, अतो मनो रम्यमानमास्ते, एवं दृष्टान्तमभिधाय दार्टान्तिकमाह
रम्मं मंतं जिणिंदाणं णाणाभावगुणोदयं। कस्सेयं ण प्पियं होज्जा इच्छियं व रसायणं ?।।
॥४५-२७॥ तथा नानाभावाः - अकृत्रिमस्वादुपदतादयोऽनेकप्रकाराः सद्भूतपदार्थाः, तेषां गुणाः - निसर्गाभिरामत्वादयः, तेषामुदयः - प्रादुर्भावो यत्र तत् - नानाभावगुणोदयम्, तदेव विशेषयति -
२२६
- आर्षोपनिषद् - रम्यम् - मनोरमम्, किमित्याह - जिनेन्द्राणाम् - तीर्थकराणाम्, मननात् त्रायत इति मन्त्रम् - शासनमित्यर्थः। उक्तं च - विलक्षणानामविलक्षणा सती, त्वदीयमाहात्म्यविशेषसम्भली। मनांसि वाचामपि मोहपिच्छलान्युपेत्य तेऽत्यद्भुत ! भाति भारती - इति (सिद्धसेनीद्वात्रिंशिकायाम् १-१९)।
तस्मात् कस्य - सचेतसः, इष्टं रसायणमिवैतत् प्रियं न भवेत् ? सर्वस्यापि प्रियं भवेदित्यर्थः, पथ्यत्वादिगुणोपेतेऽमूढस्य विपर्यासायोगात्, तदाहुः - शरण्य ! पुण्ये तव शासनेऽपि संदेग्धि यो विप्रतिपद्यते वा। स्वादौ स तथ्ये स्वहिते च पथ्ये संदेग्धि वा विप्रतिपद्यते वा - इति (अयोगव्यवच्छेदद्वात्रिंशिकायाम् - ९)। उपमान्तरैर्जिनशासनभक्तिमाविष्कुरुते
तण्हातो व सरं रम्मं वाहितो वा 'रुणाघ (याह)रं। छुहितो वा जहाऽऽहारं रणे मूढो व बंदियं।।
॥४५-२८॥ तृष्णायाः पीडितो यथा रम्यं सरः शरणीकरोति, व्याधितो यथा रुजाहरम् - रोगहारिणं वैद्यमिति यावत्, सर्वत्र शरणं प्रपद्यत इति शेषोऽवगन्तव्यः, यद्वा क्षुधितः - बुभुक्षुः, यथाऽऽहारम्, रणे - सङ्ग्रामे, मूढः - क्लीबसत्त्वः, बन्दिनम् - सत्त्वोल्लासप्रयोजकं स्तुतिपाठकम्,
१. क.ख.घ.च.ज.ट..ढाण.ध.ध.न.फ - जधा। ग.द - जथा। झ.त - तधा । प - जंधा।
१. क.ज.ट.ठ.ढाण.थ.ध.न.प.फ - रुणाघरं । ग - प्रतौ पश्चादर्धम् - वाहितो वारुणाघरं। घ.च.त - रुयाहरं। झ - रुयाधरं ।