SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ २२४ Re-ऋषिभाषितानि - -२२३ परिणमतीति सर्वसत्त्वानुगामिनी, ताम्, उक्तं च- देवा दैवीं नरा नारी, शबरा अपि शाबरीम्। तिरश्चो ह्यपि तैरश्ची, मेनिरे भगवद्गिरम् - इति। जिनेन्द्रभणितामाज्ञाम् - प्रवचनम्, सम्यक् - सत्प्रतिपत्त्या, दृप्ता इव दृप्ताः, अतिशयरसप्रसरसरसशास्त्रसुधापरिपानसञ्जातहर्षोल्लासा इत्याशयः, यथोक्तम् - शास्त्रसङ्घातमत्ताः - इति (नियमसारवृत्तौ ११५), अभिनन्द्यकुशलचित्तेन परिभाव्य, सर्वबन्धनात् - कृत्स्नकर्मपाशात्, मुच्यन्ते - मोक्षमुपयान्ति, जिनवचस एकस्यापि मुक्तिदायकत्वात्, तदाह - एकमपि तु जिनवचनाद्यस्मानिर्वाहकं पदं भवति। श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः- इति (तत्त्वार्थकारिकायाम् २८)। अतः परिभावनीयं जिनवचः, अन्यथोक्तलाभवञ्चनात्, प्रत्यपायाच्चेत्याह वीतमोहस्स दंतस्स धीमंतस्स भासितं जए। जे णरा णाभिणंदंति ते धुवं दुक्खभायिणो।। ॥४५-२४॥ वीतमोहस्य - उन्मूलितभवद्रुममूलभूतमोहस्य, एतेनास्याज्ञानाभाव आवेदितः, दान्तस्य - समचित्तवृत्तेः, एतेनास्य रागद्वेषविरह उदितः, धीमतः - केवलज्ञानदर्शनप्रेक्षापरिकरितस्य, एतेनास्य सर्वज्ञत्वं व्याख्यातम्, तस्य भाषितं जगति ये नरा नाभिनन्दन्ति - न कुशलचित्तेन परिभावयन्ति, ते नरा ध्रुवम् - अवश्यं, दुःखभागिनः - पीडैकप्रतिपत्तारः, भवन्ति, तदपरिभावनस्य तदुल्लङ्घनहेतुतया नैकदुःखलक्षजनकत्वात्, उक्तं च - आर्षोपनिषद् - जिणाणं लंघए मूढो किलाहं सुहिओ भवे। जाव लक्खाई दुक्खाणं आणाभंगे कओ सुहं ? इति (मूलशुद्धौ ५८)। अयमाशयः - वीतमोहत्वादिगुणविशिष्टस्य वचनमेकान्तेनावितथमेव भवति, उक्तं च - आणा एसा जिणाणं सवण्णूणं अवितहा एगंतओ, न वितहत्ते निमित्तं, न चानिमित्तं कज्ज - इति (पञ्चसूत्रे ५)। इत्थं चास्मिन्नज्ञानादिवितथवचननिमित्तविरहादवितथवचनता, ततश्च तन्निरूपितभवमोक्षहेत्वादिपरिभावनत एव मुक्त्युपायसम्प्रवृत्तस्य भवदुःखक्षय उपपद्यते, नान्यथा। तस्मादितरस्य तु जिनाज्ञोल्लङ्घनाच्चातुरन्तसंसारकान्तारानुपरिवर्त्त एव, यदार्षम् - इच्चेइअंदुवालसंग गणिपिडगं तीए काले अणंता जीवा आणाए विराहित्ता चाउरतं संसारकंतारं अणुपरिअट्टिंसु, इच्चेइअं दुवालसंगं गणिपिडगं पडुपन्नकाले परित्ता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरिअद्भृति, इच्चेइअं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए विराहित्ता चाउरंतं संसारकतारं अणुपरिअट्टिस्संति - इति (नन्दीसूत्रे १५७)। एतदेव व्यतिरेकत आह - जेऽभिणंदंति भावेण जिणाणं तेसि सव्वधा। कल्लाणाई सुहाई च रिद्धीओ य ण दुल्लहा।। ॥४५-२५।। ये भावेन - अन्तःकरणेन जिनाज्ञामभिनन्दन्ति तेषां सर्वथा कल्याणानि-द्रव्यभावारोग्याणि, सुखानि लोकलोकोत्तर-शर्माणि, ऋद्धयः - चक्रिदेवेन्द्रसत्कविभवाः,
SR No.009617
Book TitleRushibhashitani Part 2
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages132
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anykaalin
File Size836 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy