________________
Re-ऋषिभाषितानि -
-२२१ (आचाराङ्गे २-३-८१) इत्यागमोदितस्वरूपो जीवः, चः समुच्चये, प्राणिघातम् - जीवव्यापादनम्, स चात्यन्तमनिष्टः सर्वेषाम्, प्राणभयस्य सर्वभयातिशायित्वात्, उक्तं च - प्राणभयं सर्वेषां हि महद्भयम् - इति (त्रिषष्टिचरित्रे), अन्वाह च - सवे तसन्ति दण्डस्स सब्वे भायन्ति मच्चुणो इति (धम्मपदे)। चकारः समुच्चये।
प्राणिनां च दया प्रिया, सर्वेऽपि-स्वात्मनि सर्वे दयां कुर्वन्तु - इत्येतदेवाभिलषन्ति, सर्वेषामपि सुखस्पृहत्वात्, दुःखसन्त्रस्तत्वाच्च, तदाह- सर्वाणि भूतानि सुखे रमन्ते, सर्वाणि दुःखस्य भृशं त्रसन्ते - इति (संन्यासगीतायाम् ९-८८)। सर्वमेतत्अनन्तरोक्तं विज्ञाय प्राणिघातं विवर्जयेत् - अहिंसा परिपालयेत्, तत्परिपालनायैवोत्साहयति -
अहिंसा सव्वसत्ताणं सदाऽणिब्वेयकारिका। अहिंसा सव्वसत्तेसु परं बंभमणिंदियं।।४५-२०।।
अहिंसा सर्वसत्त्वानां सदाऽनिर्वेदकारिका - अखेदजनिका सुखहेतुरिति यावत्। तथा सर्वसत्त्वेष्वहिंसाऽनिन्दितम् - प्रशस्तम्, परम् - उत्कृष्टम्, ब्रह्म, परम्ब्रह्मात्मकशुद्धात्मस्वरूपाधिगमहेतुत्वात्। अत एव
देविंदा दाणविंदा य णरिंदा जे वि विस्सुता।
सव्वसत्तदयोवेतं मुणीसं पण्णमंति ते।।४५-२१।। १. क.ख.ज.ट.ठढ़ण,त.थ - सदा णिब्बे०। ग - सदाऽणिब्बे०। घ.च.छ.झ - सदा णिब्बे०। क.ख.ग.ज.ट.ठ.ढण.थ.द - मुणिस्सं । घ.च.झ.त - मुणीसं । ड - मुणिणं।
२२२
आर्षोपनिषद् - सुगमम्। उपसंहरति - तम्हा पाणदयट्ठाए तेल्लपत्तधरो जधा। एगग्गयमणीभूतो दयत्थी विहरे मुणी।।४५-२२।।
तस्मात् प्राणाः - जीवाः, तेषां दयार्थम् - कृपाहेतोः, यथा तैलपात्रधरः प्रवचनप्रसिद्धः, तथा एकाग्रकम् ईर्यासमित्यादौ तत्तद्योग एकायनीभावमुपयातम्, मनो यस्य सः - एकाग्रकमनाः, तथाभूतः - एकाग्रकमनसीभूतो दयया एवार्थीसप्रयोजनः - दयार्थी, एतेनास्यात्मनि सातप्रयोजनताऽपास्ता, मुनि:- दयैकप्रयोजनप्रवचनमननालङ्कृतः, तथा चोक्तम् - सव्वजगजीवरक्खणदयट्ठताए पावयणं भगवया सुकहियं - इति (प्रश्नव्याकरणे २-६-२२)। विहरेत् - वर्तेत, अपरथा प्रमादयोगेन सत्त्वव्यापत्तिप्रसक्तेः संसृतिप्रसङ्गात्, उक्तं च- तैलपात्रधरो यद्वद्, राधावेधोद्यतो यथा। क्रियास्वनन्यचित्तस्याद् भवभीतस्तथा मुनिः - इति (ज्ञानसारे २२-६)।
सर्वमप्येतज्जिनाज्ञयैव ज्ञायत इति तामेव संस्तुवन्नाह - आणं जिणिंदभणितं सव्वसत्ताणुगामिणिं। सम्म दित्ताऽभिणंदित्ता मुच्चंती सव्वबंधणा।।
॥४५-२३।। सर्वसत्त्वेष्वनुकूलतया गच्छतीति सर्वसत्त्वानुगामिनी, सर्वजीवसुखावहत्वात्, ताम्, यद्वा सर्वसत्त्वेष्वनुरूपभाषायां गच्छति -
१. क.ढ,ण - संम दित्ता भि०। ख.ज.ट.ठ.थ - संमं दित्ताभि । ग.घ.च.झ.त - समचित्ताऽभि०।