________________
२१९
Re-ऋषिभाषितानि - 'देज्जा हि जो मरंतस्स सागरंतं वसुंधरं। जीवियं वा वि जो देज्जा जीवितं तु स इच्छती।।
॥४५-१५॥ स्पष्टम्। यतः - पुत्तदारं धणं रज्जं विज्जा सिप्पं कला गुणा। जीविते सति जीवाणं जीविताय रती अयं।।
॥४५-१६॥ पुत्रो दारा धनं राज्यं विद्या शिल्पं कला गुणाः, तदेतत् सर्वमपि जीवानां जीविते सत्येव भवति, नान्यथा यदुक्तम्, जीवन् हि नरो भद्राणि पश्यति - इति। तस्मात् जीवितायेमा - प्रत्यक्षमीक्ष्यमाणा रतिः - स्वरसः, आकाङ्क्षति यावत्, तदाह - अमेध्यमध्ये कीटस्य सुरेन्द्रस्य सुरालये। समाना जीविताकाङ्क्षा, समं मृत्युभयं द्वयोः - इति। किञ्च -
आहारादि तु जीवाणं लोए जीवाण दिज्जती। पाणसंधारणट्ठाय दुक्खणिग्गहणा तहा।।
॥४५-१७॥ लोके जीवानामाहारादि तु प्राणसन्धारणार्थं जीवेभ्यो दीयते, तथाविधदयालुभिरिति शेषः। तथैव दुःखम् - हिंसाजनितपीडा, तस्य निग्रहणम् - प्रतिकारः, हिंसाप्रतिपक्षा
२२०
आर्षोपनिषद् - हिंसाचरणेनाभयदानमिति यावत्, एतदपि प्राणसन्धारणार्थमेवावश्यं दातव्यमिति। यतः
सत्येण 'वण्हिणा वा वि खते दड्ढे व वेदणा। सए देहे जहा होति एवं सव्वेसि देहिणं।।४५-१८।।
यथा शस्त्रेण क्षते वा वह्निना दग्धे वाऽपि स्वके - आत्मीये देहे वेदना-क्षतादिकृता पीडा भवति, एवं सर्वेषामपि देहिनाम् - जीवानां क्षतादितो वेदना भवतीति प्रत्येयम्, ततश्च हननादेर्निवृत्तिः कर्तव्या, सर्वेषामप्यात्मोपमत्वात्, तदुक्तम् - यथा अहं तथा एते यथा एते तथा अहं। अत्तानं उपमं कत्वा न हनेय्य न घातये - इति (सुत्तनिपाते ३-३७-२७)।
इत्थं च यथाऽऽत्मनः सुखदुःखे प्रियाप्रिये तथा परत्रापि विभाव्य हिंसोपरमः विधेयः, तथा चार्षम् - जह ते न पियं दुक्खं जाणिय एमेव सव्वजीवाणं। सव्वायरमुवउत्तो अत्तोवम्मेण कुणसु दयं - इति (भक्तपरिज्ञाप्रकीर्णके ९०), अन्वाह च - जह मे इट्ठाणिढे सुहासुए तह सव्वजीवाणं - इति (आचाराङ्गचूर्णी १-१६)। एवं च -
पाणी य पाणिघातं च पाणीणं च पिया दया। सव्वमेतं विजाणित्ता पाणिघातं विवज्जए।।
॥४५-१९।। प्राणी - सव्वे पाणा पियाउया सुहसाया दुक्खपडिकूला अप्पियवहा पियजीविणो जीविउकामा सव्वेसिं जीवियं पियं -
१. क.ग.घ.च.छ.झ.ण.त - देज्जा हि जो। ख.ज.ट..थ.द.ध.न.प.फ - देज्जा हिज्जो। ड - दिज्जा हि जो। ढ - दज्जाहिंजो। २. क.ख.ग.ज.ट.ठ.ड.ढाण.थ - जहा। घ.च.छ.झ.त.द - तहा।
१.क.ण - वण्हिना। ख.ज.ट.ठ.थ.द - वण्हिता। ग.घ.च.छ.झ.ढ.त - बहिणा।