________________
ऋषिभाषितानि
.२१७
धावंतं सरिसं 'तारं सच्छं दाढिं (? च) सिंगिणं । दोसभीरू विवज्जेती पावमेवं विवज्जए ।।४५ - १२ ।। धावन्तम् शीघ्रगतिपरिणतं वृषभादिम्, सरिसं ति प्राकृतत्वात् सरीसृपम् - उरगादिकम्, तारम् - वानरविशेषम्, सच्छं ति प्राकृतत्वात् स्वच्छन्दमुच्छृंखलमिति यावत्, कं स्वच्छन्दमित्याह- दंष्ट्रिणम् - तथाविधकुक्कुरादेरारभ्य आ सिंह तीक्ष्णदंष्ट्रारूपायुधवन्तम्, शृङ्गिणं च - तीक्ष्णशृङ्गप्रहरणं मेषादिकम्, दोषभीरवः- पतनपीडाप्रभृतिप्रत्यपायसम्भावनासञ्जातसाध्वसाः, विवर्जयन्ति - दूरत एव परिहरन्ति एवम् - नारकादियातनात्मकदोषभीत्या, पापम् तद्धेतुभूतमशुभानुष्ठानम्, विवर्जयेत् - मनसोऽपि न स्पृशेत् । पापं हि शुभमात्रादात्मवञ्चना, पाति रक्षत्यात्मानं शुभादिति पापम् - इति तन्निरुक्तेः (सर्वार्थसिद्धौ ६-३)।, तत्प्रत्ययिककर्मोदयतश्चानेकदुः सहदुःखानि, उक्तं च - असुहोदयेण आदा कुणरो तिरियो भवीय णेरइयो । दुक्खसहस्से हिं सदा अभिधुदो भमदि अच्चंता - इति ( प्रवचनसारे १२ ) ।, एतदेवाभिधत्ते -
पावकम्मोदयं पप्पा दुक्खतो दुक्खभायणं । दोसा दोसोदई चेव पावे कुच्छा पसूयति ।।
।।४५-१३।।
१. ख. ग. ज. ट. ठ. ध.न.प.फ तारं । घ.च. छ. झ.त नीरं । २. क.ख.ज.ट. ठ.ढ.ण.
थ..ध.न.प.फ पावे कुच्छा । गद - पादेकुत्था। ठ
पप्पा ग घ च छ झ.त पावे कुज्जा घ झ.त. पादेकुच्छा ।
पप्प। ३ ख... ध.न.प.फ पावकज्जा । च • पापकज्जा । ट
आर्षोपनिषद्
पापकर्मोदयं प्राप्य दुःखतः - सम्प्राप्तदुःखादेव तद्धानोत्सुको जीवोऽपराणि पापानि कृत्वा दुःखभाजनं सञ्जायते । इत्थं च दोषादेव दोषोदयी - दोषोदयपात्रम्, मूढजीवो भवति, अभिहितं च - दुक्खितो दुक्खघाताय दुक्खावेत्ता सरीरिणो । पडियारेण दुक्खरस दुक्खणं णिबंधई - इति (ऋषिभाषिते १५१२) ।
२१८
तदेतद्दारुणं विषचक्रं दृष्ट्वा विवेकिनां पापे कुत्सा प्रसूयते, धिक्, अत्यन्तं हेयमेव पापमिति संवेदनं सञ्जायत इत्यर्थः । सा च कुत्सैतच्चिन्तनेनोपचीयत इत्याह
उब्विवारा जलोहंता तेतणीए मतोट्ठिता ।
जीवितं वा वि जीवाणं जीवंति फलमंदिरं । ।
।।४५-१४।। उर्व्यां पारोऽन्तो यस्याः सा - • उर्वीपारा, यावदुर्वी तावदस्या अवधिरित्यर्थः, एतदेव स्फुटयति जलौघः - समुद्रः, तत्राऽन्तः पर्यवसानं यस्याः सा जलौघान्ता, तेतणीएत्ति तावती, मेदनीति गम्यते, मता - चक्रवर्त्त्यादेरभिमता - इष्टेति यावत्, उत्थिता जीवानां प्राभृतीकृता, जीवितं वाऽपि प्राभृतीकृतम्, एवमन्यतरोपादानायाभिहितास्ते जीवा जीवन्ति - अन्तर्भावितेच्छाप्रत्ययार्थत्वाद् जिजीविषन्तीत्यर्थः, जीवनमेवेच्छन्तीति यावत्, यतस्तदेव सर्वेषामपि नृपत्वादिलक्षणानां फलानां मन्दिरम् - निलयमा - श्रयमिति यावत् - फलमन्दिरम्। एतदेव व्यक्ततरं व्याचष्टे
१. क. ख. ग. ठ.ढ... ध.न.प.फमतोट्ठिता । घ.च. छ. झ.त मतोट्ठित्ता ।
-
-