________________
२०५
Re-ऋषिभाषितानि - त्यादिवचोऽभिव्यज्यमानमानन्दमनुभवति।
तथाऽयं सर्वज्ञशासनम् - जिनाज्ञाम्, मुक्त्वा - तिरस्कृत्य, मोहादिकैः - अज्ञानादिदोषैः, चारित्रं हिनस्ति - विराधयति। जो तु - इति पाठे यस्तु सर्वज्ञशासनं मोहादिभिर्हिनस्ति - विराधयतीत्यर्थः, इत्थं च सः - दुर्मतिः, अमृतेन विषं ग्राह्यम् - विषस्य मूल्यतयाऽमृतं दत्त्वापि विषं क्रेतव्यमिति ज्ञात्वा तत्रैव युज्यते - विषक्रयणव्यापृतो भवति, अत्रोपनयो भावित एव, तथापि प्रकारान्तरेण भावयति -
आजीवत्थं तवो जो तु तप्यते विविहं बहु। तवणिस्साए जीवंतो तवाजीवं तु जीवती।।४१-८।।
यस्त्वाजीवार्थम् - जीविकाहेतोः, विविधम् - अनेकप्रकारम्, बहु - प्रमाणेन प्रभूतम्, तपः - मासक्षपणादि, तपते - करोति, एवं च तपोनिश्रया जीवन् तपआजीवं तु - तपोविहितजीविकामेव जीवति, न तु मुधाजीविकामिति, एवं चासौ तुच्छजीविकार्थं तपोविक्रयणं विदधन् कोट्या काकिणीं क्रीणातीति भावः। एवं ज्ञानधुपजीवनगोचरमप्याह
णाणमेवोवजीवंतो चरित्तं करणं तहा।। लिंगं च जीवणट्ठाए अविसुद्धं तु जीवती।।४१-९।।
यश्च ज्ञानमेवोपजीवन्नास्ते, एवं चारित्रम् - चरणम् - व्रतश्रमणधर्मादिलक्षणम्, तथा करणम् - पिण्डविशुद्ध्यादिरूपमाचारम्, उपजीवति, तथा लिङ्गं च - मुनिवेषरजोहरणादिरूपम्, जीवनार्थम् - प्राणधारणप्रयोजकाहाराद्यधिगमार्थम्,
२०६
- आर्षोपनिषद् - व्यापारयति, सोऽविशुद्धं तु - अशुद्धमेव जीवति।
ननु कथं पिण्डविशुद्ध्यादेर्गुणात्मकस्य जीविकासाधनत्वंमशुद्धजीवनहेतुत्वं च सङ्गतिमङ्गतीति चेत् ? न, जनावर्जनप्रयोजनेन मिथ्याचारं प्रदर्शयतस्तदुपपत्तेः, पिण्डविशुद्ध्यादेरपि मलिनाशयानुवेधेनाविशुद्ध्यनतिक्रमादिति सूक्ष्ममीक्षणीयम्, प्रमाणं चात्र पारमर्षम् - परिणामियं पमाणं - इति (ओघनिर्युक्तौ - ५६०)। अन्यान्यष्यशुद्धजीवननिबन्धनान्याह
विज्जामंतोपदेसेहिं दूतीसंपेसणेहि वा। 'भावीभवोवदेसेहिं अविसुद्धं तु जीवति।।४१-१०।।
विद्यामन्त्रोपदेशैः दूतीसम्प्रेषणैर्वा - दूतीकर्मणा पिण्डनियुक्तिप्रसिद्धेन द्वितीयेन भिक्षादोषेण, यद्वा कामिनीमेलनेनेत्यर्थः, कथमेतत् साधोः सम्भवतीति चेत् ? न, क्लिष्टसत्त्वानामकृत्यविरहात्, अत एव जिनभवनाशातनासु मैथुनमपि पठितमित्यलं प्रसङ्गेन। तथा भाविनि काले भवन्तीति - भाविभवा: - अनागतकालसम्बन्धिवार्ताः, तेषामुपदेशैः - प्रतिपादनैर्यः साध्वाभासो जीवति सोऽविशुद्धं तु - अविशुद्धमेव जीवति, कबूरशीलं धारयतीत्यर्थः, भावीतवोवदेसेहि - इति पाठेऽमुकममुकं तपोऽहं करिष्यामीति जनावर्जनहेतुकाभिधानैरित्यर्थः। तथा -
१. क.ग.च.ज.ट.ठ.ढण.द.ध.न.प.फ - भावीतवोवदेसे। ख - भावातदीसहिं। घ.छ.झ.त - भावीभवोवदेसेहि। थ - भावीदेसेहिं ।