________________
-२०७
Re- ऋषिभाषितानि - मूलकोउयकम्मेहिं 'भासाए णइएहि वा। अक्खाइओवदेसेहिं अविसुद्धं तु जीवति।।
॥४१-११॥ मूलकौतुककर्मभिः, अत्र मूलकर्म-वशीकरणम्, सहदेवीमूलिकाकल्पादि, तत्तच्छास्त्रविहितं मूलकर्म वा, कौतुककर्म - अपत्याद्यर्थं स्नपनादि भाषया - जनमनोरञ्जनार्थमुदितया विचित्रया वाण्या, नयिकैर्वा - गूढाभिप्रायैर्वचनैः, तथाऽऽख्यायिकोपदेशः - कथाविशेषप्रतिपादनैः, अविशुद्धं तु जीवति, जीविकार्थमेषां प्रयोगस्य प्रतिक्रुष्टत्वात्।
केनैवमभिहितमित्याह- इंदनागेण अरहता इसिणा बुइतं। इन्द्रनागेनार्हतर्षिणोदितमिति। ननु दृश्यन्ते लोके मूलकर्मादि कुर्वाणा अपि दुष्करतपःप्रभृतिमाचरन्त इति कथमेषामद्भुतवृत्तानामविशुद्ध जीवनं सम्भवतीति चेत् ? अत्राह
मासे मासे य जो बालो कुसग्गेण आहारए। ण से सुक्खायधम्मस्स अग्घती सतिमं कलं।।
॥४१-१२।। मासे मासे - इति वीप्सायां द्विवचनम्, चः - अवधारणार्थः, ततश्च मासे मास एव, न त्वेकस्मिन्नेव मासेऽर्धमासादौ वेत्यर्थः, यः कश्चित्, बालः - अविवेकः, कुशाग्रेणाहारयति, तृणविशेषप्रान्तेन भुङ्क्ते, एतदुक्तं भवति - १. क.ख.ज.ठ.ढण.थ.द.ध.न.प.फ - भासाएणइएहि या। ग.घ.छ.झ.त . भासापणइएहिं । च . भासापणाइएहिं। ट - प्रती - भासाएइणरहिवा इति द्वितीयपादः।
२०८
- आर्षोपनिषद् - यावत् कुशाग्रेऽवतिष्ठते तावदेवाभ्यवहरति, नातोऽधिकम्, यद्वा कुशाग्रेणेति जातावेकवचनम्, तृतीया तु 'ओदनेनासौ भुङ्क्ते' इत्यादिवत् साधकतमत्वेनाभ्यवह्रियमाणत्वेऽपि विवक्षितत्वात्, न इति निषेधे, स इति यः कुशाग्रैर्भुङ्क्ते स एवंविधकष्टानुष्ठाय्यपि, सुष्ठु - शोभनः, सर्वसावधविरतिरूपत्वात्, आङितिअभिव्याप्त्या, ख्यातः - तीर्थकरादिभिः कथितः स्वाख्यातः, तथाविधो धर्मो यस्य सोऽयं स्वाख्यातधर्मा, तस्य सच्चारित्रिण इत्यर्थः, शतिमाम् - शततमाम्, कलाम् - भागम्, अपि अर्घति - अर्हति। तत्तपः शुद्धजीवनानुष्ठानस्य शतांशसमोऽपि न भवतीति हृदयम्। कथं तादृशानुष्ठानमनुष्ठेयमिति चेत् ? मुधाजीवितयेति गृहाण, साऽपि कथमिति चेत् ? अत्राह -
मा ममं जाणऊ कोयी माहं जाणामि 'किंचि वि। अण्णातेण तु अण्णातं चरेज्जा समुदाणियं।।
॥४१-१३।। कोऽपि मां स्वज्ञात्यादित्वेन विशिष्टजातिकुलतपःश्रुतादिसम्पन्नतया वा मा जानातु, अहमपि किञ्चिदपि वस्तु मदिष्टानिष्टसाधनतया मा जानामि - न जानीयाम्, न तज्ज्ञाने मत्स्वरस इत्याशयः। इत्थमज्ञातेनात्मनाऽज्ञातं तु समुदानिकम् - उच्चावचकुलेषु भिक्षाग्रहणम्, चरेत् - स्वानुष्ठानविषयीविदध्यात्। अत एवोक्तं परैरपि - ज्ञातचरदेशं चण्डालवाटिकामिव त्यजेत् -
१. क.ट.ठ.ढण.थ.ध - किंचि वी। ख.ग.घ.छ.त - किंचि वि। च.झ - कंचि वि। ज.न.प - किंवि वी।