________________
नल-ऋषिभाषितानिपर्यायान्तरं प्रतिपद्यन्त इत्यर्थः। एवं तिर्यञ्चस्तिर्यक्त्वात्, मनुष्या मनुष्यत्वात्, देवा देवत्वात्। किमुक्तं भवति - अनुपरिवर्तन्ते जीवाश्चातुरन्तं संसारकान्तारं कर्मानुगामिनः - स्वस्वप्राक्कृतकर्मानुसारेण तत्तद्गत्यादिभाजः।।
तथापि - एवं स्थितेऽपि, मम जीव इहलोके - वर्तमानभवे सुखोत्पादकः - ऐहिकसुखसाधनान्वेषणपरायणः, अत एव परलोके-प्रेत्यभवे, दुःखोत्पादकः - दुःखहेतुकर्मार्जयिता, तमेव विशेषयति - अनिजः, रागादिकलुषितत्वात्, शुद्धात्मस्वरूपे विकल्पमात्रानवकाशात्, तदाह -
तमि य आयसरूवं विसयकसायाइदोसमलरहि। विन्नाणाणंदघणं परिसुद्धं होइ पच्चक्खं।। जलहिंमि असंखोभे पवणाभावे जह जलतरंगा। परपरिणामाभावे णेव वियप्पा तया हुति।। का अरती आणंदे के व त्ति वियप्पणं ण जत्थुत्तं। अण्णे तत्थ वियप्पा पुग्गलसंजोगजा कत्तो ? - इति। तस्मात् सुखस्पृहस्य स्वपर्यायस्यापि कथञ्चिदस्वकीयता प्रतिपत्तव्येति। ___तथाऽध्रुवः, स्थिरताविरहात्, ध्रुव गतौ स्थैर्ये च। तथा - इतिः - समाप्तिः, तद्रहितः - अनितिकः, सुखस्पृहादिपरपरिणामहानमन्तरेण कर्मानुगमननिष्ठाविरहात्। तथाऽनित्यः, गत्यादिवैचित्र्यभाक्तयाऽनियतभवनशीलत्वात्। अत एवाशाश्वतः, एकस्यामेव गतौ शश्वदवस्थानाभावात्।
सोऽयं यद्विचेष्टते तदाह - सजति रज्यति गृध्यति मुह्यति १. अध्यात्मध्यानैकाग्रत्वे समुल्लसिते। २. धर्मपरीक्षायाम् ।।९६-९८।।
आर्षोपनिषद्अध्युपपद्यते विनिघातमापद्यत इति प्राग्वत् । नवरमध्युपपद्यत इति तद्ग्रहणैकाग्रचित्तो भवति। ___ इदं च पुनः शरीरम्, शटनम् कुष्ठादिनाङ्गुल्यादेविशरणम्, पतनम् - बाह्वादेः खड्गछेदादिना पातः, विकिरणम् - क्षयादिरोगोद्रेकेणापहृतसारतया विनाशाभिमुखत्वम्, विध्वंसनम् - प्रकृतेरेवोच्छेदः, एतानि शटनादीन्येव, धर्मा यस्य तत् - शटनपटनविकिरणविध्वंसनधर्मम्, शरीरविशेषणमिदम्। तदर्थं हि जीवा भोगसाधनानि मार्गयन्ति, सजन्ति रजन्ति यावद्विनिघातमापद्यन्ते। तस्मात् शरीरमेव संसारावर्त्तबम्भ्रमणबीजम्। किन्त्वनेका योगाः - ज्ञानादिलक्षणा मोक्षयोजनव्यापाराः, त एव क्षेमम् - कल्याणम्, तद्धेतुभावात्। तेन, आयुक्तम् - तदर्पितकरणतयाऽभिविधिनाऽनुविद्धम्, मकारोऽलाक्षणिकः, अनेकयोगक्षेमायुक्तम् एतादृशं त्विदमेव शरीरं जीवस्यान्तं ऋच्छति - प्रापयतीति - जीवस्यान्तारम्, सापेक्षस्यापि समासो यथा देवदत्तस्य गुरुकुलम्, यथा चागमे - दुक्खस्संतगवेषिणो', लौकिकेऽपि - प्रज्ञया सदृशागमः - इति । इलु-क-प्रत्ययौ स्वार्थे, लिङ्गव्यत्ययः प्राकृतत्वात् । जीवस्य
१. ऋषिभाषिते । ।१६-२ ।। २. समायुत्तं । हस्तादर्शपु - मायुत्तं । ३. ख-ज-ट-ठजाव । ४. क-ज-ठ-द-स्संतारेलुके । ण-थ-ध-न-प- स्सऽतारेलुके । च-स्स अतारेलुकेकिं । घ-त- स्सऽतारेलुकिं । ट- संतारेलुके । अत्र अतारेलुकिं संसारणिव्वेढिं करेत्ता अणाइयं अणवदग्गं - इत्यादिमुद्रितपुस्तकेषूपलभ्यमानं कल्पितपाठमुपेक्ष्य हस्तादर्शपाठः स्वीकृतः । ५. उत्तराध्ययने ।।१४-५२ ।। ६. रघुवंशे ।।२-२८ ।। ७. यद्यप्युपलब्धद्वादशादर्शष्वपितारेलुके - इत्येव पाठः, तथाप्यत्र लिपिदोपः सम्भाव्यते।
Ashopnisad 2.p65
2nd Proof