________________
नर-ऋषिभाषितानिभवपर्यन्तप्रापकमिति तात्पर्यम्। एतदेवाह - संसारस्य निर्वेष्टिम् - विनाशम्, करोति।
तदवबुद्धप्रकृततत्त्वोऽहमपि संसारनिर्वेष्टिं कृत्वा शिवमचलं यावत्स्थास्यामि।
तस्मादध्रुवमशाश्वतमिदं शरीरं संसारे सर्वजीवानां संसृतिः - भवाद् भवान्तरे संसरणम्, तस्याः करणम् - साधनम्, प्रायस्तदर्थं पापानां क्रियमाणत्वात्। इति - अनन्तरोक्तम्, ज्ञात्वा - श्रुतप्रज्ञयोपलभ्य, एतेन शरीरेण ज्ञानदर्शनचारित्राणि सेविष्ये - तदाराधनां करिष्ये, ज्ञानदर्शनचारित्राणि सेवित्वाऽनादिकं यावस्थास्यामीति प्राग्वत् । ज्ञानादिना संसारकान्तारव्यतिव्रजनमेव स्पष्टयति -
कंतारे वारिमझे वा, दित्ते वा अग्गिसंभमे। तमंसि वा जधा णेता, तधा धम्मो जिणाहितो।।२४-३।।
कान्तारे - अटव्याम्, वारिमध्ये वा - अवारपारपानीयमध्यभागे, दीप्ते वाऽग्निसम्भ्रमे - जाज्वल्यमानज्वलनज्वालावलिडम्बरे, तमसि वा - कज्जलसङ्काशेऽन्धतमसे, उक्तान्यतमेऽपि दारुणव्यसने यथा कश्चिन्नेता - निरापत्पदप्रापयिता, तथा कान्तारपारावारहुताशनसन्तमसादिसङ्काशे संसारेऽपि जिनाख्यातः - सर्वज्ञवीतरागभगवत्प्रतिपादितो धर्मः शिवाख्यनिरापत्पदप्रापयिता भवतीति। उपमान्तरैर्धर्ममाहात्म्यमाह - १. क-ढ-ण-ध-न-प-सिवमचल चिट्ठिस्सामि । ख-ज-थ- सिवमवल जाव चिट्ठिस्सामि । गच- सिबमचल० चिट्ठिस्सामि। घ-त- अणाइयं०। २. घ.झ.त. - संसतीकारणम्। हस्तादशेषु - संसतीकरणम् । ३.ऋषिभाषिते ।।३-१।।
आर्षोपनिषद्धारणी सुसहा चेव, गुरू भेसज्जमेव वा। सद्धम्मो सव्वजीवाणं, णिच्चं लोए हितंकरो।।२४-४।।
धारयति चराचरपदार्थानिति धारणी - पृथ्वी, सा यथा सर्वंसहात्वेन भार-छेदन-भेदन-ज्वालनादि सर्वं सुतरां सहत इति सुसहा। चैव - समुच्चये। गृणाति हिताहिततत्त्वमिति गुरुः, गृ शब्दे, सोऽत्र कलाचार्यादिरवगन्तव्यः, जनकादिर्वा, स यथा व्यवहारादौ योगक्षेमकृद् भवति। यथा वा भेषज्यम् - अगद
ङ्कारम्, रोगापहारेणारोग्यसुखं ददाति। यथैते स्वस्वगुणातिशयेन लोके प्रसिद्धास्तथा धर्मोऽपि नित्यहितकृत्त्वेनेत्युपनयन्नाह - सर्वजीवानाम् - अशेषभव्यात्मनाम्, नित्यम् - सदापि, लोके - इहपरोभयभवे, सद्धर्मः - सम्यगाराधितः केवलिप्रज्ञप्तो धर्मः, हितङ्करः - कल्याणकारी, अत एवोक्तं परैरपि - धर्मसारमिदं जगदिति । एवं स्थितेऽपि धर्माचरणं भवनिर्वेद विना दुर्घटमिति तमेवोत्पादयति -
सिग्धवायिसमायुत्ते, रधचक्के जहा अरा। फडतं वल्लिछाया वा, सुह-दुक्खे सरीरिणो।।२४-५।।
यथा शीघ्रौ - जवनौ, वाजिनौ - तुरङ्गमौ, ताभ्यां समायुक्ते - सम्यक्तया योगं कारिते रथचक्रे - स्यन्दनपादे, अराः - तुम्बादारभ्य धारापर्यन्तं व्यवस्थिताश्चक्रावयवाः, अनारतं विपरिवर्तन्त इति गम्यते।
यथा वा वल्ल्याः - व्रततेः। छाया - कान्तिः, स्फटान्तम्
Ashopnisad 2.p65
2nd Proof
१. वाल्मिकिरामायणे ।।३-९-२९ ।।