________________
नल-ऋषिभाषितानिदर्शनेन दृष्ट्वा, संयमेन - चारित्रेण, संयम्य - तेषु रागादिनिरोधं कृत्वा, कर्माश्रवद्वाराणि वा संवृत्य, तपसाऽष्टविधकर्मरजः तदेवात्ममालिन्यकृत्त्वान्मलः, तं विधूय - आत्मप्रदेशेभ्यः पृथक्कृत्य, एवं चात्मस्वरूपं विशोध्य - बन्धविच्छेदानुभावेनासम्भवन्मलसंसर्गतारूपेण निर्मलीकृत्य अनादिकमित्यादि प्राग्वत् । नवरं तिष्ठन्तीत्यस्य पदे स्थास्यामीति, व्यक्तं च। एवं मोक्षाभिलाषेण यत्फलति तदाह
एवं से सिद्ध बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।।
एवमित्यादि प्राग्वत्। इति त्रयोविंशतितमे रामपुत्रीयाध्ययन आर्षोपनिषद्।
॥ अथ चतुर्विंशतितमाध्यायः।। अनन्तराध्ययने बालमरणपरिहारेण पण्डितमरणाभिलाष उक्तः, अत्रापि प्रकारान्तरेण स एवाभिधीयते
“सव्वमिणं पुरा भव्वं, इदाणिं पुण अभव्" हरिगिरिणा अरहता इसिणा बुइतं।।२४-१।।
सर्वम् - कृत्स्नम्, इदम् - वक्ष्यमाणं चतुर्गतिपरिभ्रमणम्, पुरा - जिनप्रवचनप्राप्तेरक्तिनकाले, भाव्यमासीत् - सम्भाव्यमानमभवत्, सव्वत्थ जंति मणुआ - इति वचनात् , ऐहिकसुखमात्रप्रतिबद्धतया तत्पथपथिकभावात्, यदागमः - अरक्खिओ जाइपहं उवेइ - इति । इदानीम् - साम्प्रतम्, पुनरभाव्यम् - १. ऋषिभाषिते ।।३-१।। २. लघुसङ्ग्रहण्याम् ।। ३. दशवैकालिके ।। चू.२/१६।।
आर्षोपनिषद्असम्भाव्यमानम्, तत्तदकरणनियमेन तत्तद्गतिप्रायोग्यकर्मबन्धविच्छेदात्, इति हरिगिरिणाहतर्षिणोदितम्। उक्तार्थमेव स्फुटीकुरुते -
चयंति खलु भो ! य णेरड्या णेरतियत्ता तिरिक्खा तिरिक्खत्ता मणुस्सा मणुस्सत्ता देवा देवत्ता, अणुपरियटृति जीवा चाउरतं संसारकंतारं कम्माणुगामिणो। तधावि मे जीवे इधलोके सुहुप्पायके, परलोके दुहुप्पादए अणिए अधुवे अणितिए अणिच्चे असासते सज्जति रज्जति गिज्झति मुज्झति अज्झोववज्जति विणिघातमावज्जति। इमं च णं पुणो सडण-पडणविकिरण-विद्धंसणधम्म अणेगजोगखेममायुत्तं जीवस्संतारेलुके संसारणिव्वेढिं करेति, संसारणिव्वेढिं करेत्ता सिवमचल जाव चिट्ठिस्सामि। तम्हाऽधुवं असासतमिणं संसारे सव्वजीवाणं संसतीकरणमिति णच्चा णाण-दसण-चरित्ताणि सेविस्सामि, णाणदंसणं-चरित्ताणि सेवित्ता अणादियं जाव कंतारं वीतिवतित्ता सिवमचल जाव ठाणं अब्भुवगते चिट्ठिस्सामि।।२४-२।।
खलु भो ! चः - अनन्तरापेक्षया समुच्चये, निरयः - नरकः, तमापन्नाः - नैरयिकाः, ते नैरयिकत्वात् - स्वकीयनारकभावात्, च्यवन्ति - पृथग् भवन्ति, तत्पर्यायं त्यक्त्वा
Ashopnisad 2.p65
2nd Proof